संस्कृत-शब्दकोशः

संस्कृत-संस्कृतकोशः

संस्कृतं खलु दैवी वाक् । एषा वेदस्य भाषा । सनातनसंस्कृतौ प्राणरूपेण अन्तर्हिता खल्वेषा भाषा । तस्या ज्ञानं विना सनातनसंस्कृतेर्ज्ञानम् अपूर्णम् । अस्माकं संस्कारा जीवनपद्धतयश्च खण्डिता इव प्रतिभान्ति । पूर्णरूपेण संस्कृतभाषाया ज्ञानाय शब्दज्ञानम् आवश्यकम् । शब्द-शब्दार्थज्ञानाय सरलं साधनं खलु शब्दकोश एव । शब्दकोशश्च व्युत्पत्ति-निष्पत्ति-उल्लेखादिसहितश्चेत् ततोऽपि सरलं भवति । एतच्च खलु ‘शब्दकल्पद्रुमः’ ‘वाचस्पत्यम्’कोशाभ्यां एव सम्भवति ।

अतः ‘संस्कृत-शब्दकोशः’(App) इत्यत्र कोशद्वयमेव स्थापितं विद्यते । एतयोः मुख्यं स्रोतः खलु IITS Koeln जालस्थानं वर्तते । एतेन जिज्ञासूनां काचिदपि जिज्ञासा उपशाम्येत, तर्हि कृतार्थो भविष्यामि । शङ्करोतु शङ्करः ।


के.एन् स्वामी
काष्ठमण्डपः, नेपालः