संस्कृत-शब्दकोशः

फलोपजीविन् फल्गु

फल्

ञिफला विशरणे


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- फलति

अर्थ−
जानु,
२. चिर्नु, फोर्नु, टुक्र्याउनु ।

कृदन्तरूपमाला

  • 1“ञि फला विशरणे” 2 ‘विशरणम् = विकसनम्।’ इति धा।
  • का।
  • व्याख्यायाम् 3।
  • ‘फलेर्विशरणे फुल्लम्, फलितम्, फलति त्रयम्।।
  • आदितो, ऽनादितस्त्वन्त्ये रूपे निष्पत्तिवाचिनः।’ 4 इति देवः।
  • फालकः-लिका, फालकः-लिका, पिफलिषकः-षिका, 5 पम्फुलकः-पंफुलकः-लिका;
  • फलिता-त्री, फालयिता-त्री, पिफलिषिता-त्री, पम्फुलिता-त्री;
  • फलन्-न्ती, फालयन्-न्ती, पिफलिषन्-न्ती;
  • -- फलिष्यन्-न्ती-ती, फालयिष्यन्-न्ती-ती, पिफलिषिष्यन्-न्ती-ती;
  • -- -- फालयमानः, फालयिष्यमाणः, -- पम्फुल्यमानः, पम्फुलिष्यमाणः;
  • 6 फल्-फलौ-फलः;
  • -- -- -- 7 फुल्लः- 8 फुल्लवान्, 9 प्रफुल्तम्-प्रफुल्तः-प्रफुल्तवान्, 10 फलितम्-फलितवान्, 11 उत्फुल्लः- 12 उत्फुल्लवान्, सम्फुल्लः-सम्फुल्लवान्, फालितः, पिफलिषितः, पम्फुलितः-तवान्;
  • फलम्, 13 फेलिवान्, फालः, पिफलिषुः, पम्फुलः;
  • फलितव्यम्, फालयितव्यम्, पिफलिषितव्यम्, पम्फुलितव्यम्;
  • प्रतिफलनीयम्, फालनीयम्, पिफलिषणीयम्, पम्फुलनीयम्;
  • फाल्यम्, फाल्यम्, पिफलिष्यम्, पम्फुल्यम्;
  • ईषत्फलः-दुष्फलः-सुफलः;
  • -- -- फल्यमानः, फाल्यमानः, पिफलिष्यमाणः, 14 पम्फुल्यमानः;
  • फालः, फालः, पिफलिषः, पम्फुलः;
  • फलितुम्, फालयितुम्, पिफलिषितुम्, पम्फुलितुम्;
  • 15 फुल्तिः, फालना, पिफलिषा, पम्फुला;
  • फलनम्, फालनम्, पिफलिषणम्, पम्फुलनम्;
  • फलित्वा, फालयित्वा, पिफलिषित्वा, पम्फुलित्वा;
  • प्रफल्य, प्रफाल्य, प्रपिफलिष्य, प्रपम्फुल्य;
  • फालम् २, फलित्वा २, फालम् २, फालयित्वा २, पिफलिषम् २, पिफलिषित्वा २, पम्फुलम् २;
  • पम्फुलित्वा २;
  • 16 फल्गुः।

प्रासङ्गिक्यः

  • ↑ (१०९०)
  • ↑ (१-भ्वादिः-५१६। अक। सेट्। पर।)
  • ↑ (१-६६)
  • ↑ (श्लो। १५८-१५९)
  • ↑ ३। यङन्ताण्ण्वुलि द्वित्वादिके कृते, ‘उत् परस्यातः’ (७-४-८८) इति उत्तरखण्डस्थाकार- स्योकारे, परसवर्णविकल्पे च रूपद्वयम्। एवं यङन्ते सर्वत्र ज्ञेयम्।
  • ↑ ४। ‘न पदान्ताः परेऽणः सन्ति।’ इति वचनं तु भाष्यासम्मतमिति, लकारन्तस्यास्य प्रयोग उपपन्तः।
  • ↑ ५। निष्ठायाम्, ‘आदितश्च’ (७-२-१६) इति इण्निषेधे, ‘अनुवसर्गात् फुल्लक्षीब--’ (८-२-५५) इत्यत्र निपातनात् निष्ठातकारस्य लकारः, प्रकृतिघटिताकारस्योत्वं च। यद्वा, लत्वस्यासिद्धत्वेन तकारादिप्रत्ययपरकत्वात्, ‘ति च’ (७-४-८९) इत्युत्वमिति ज्ञेयम्।
  • ↑ ६। ‘क्तवतोरप्येतल्लत्वमिष्यते।’ इति वृत्तिः। तन्मते फुल्लवान् इत्यपि साधुः।
  • ↑ ७। अनुपसर्गादेव लत्वस्य निपातनात्, सोपसृष्टात् इण्निषेधे, उत्वे च रूपमेवम्। प्रफुल्लम् इति तु ‘फुल्ल विकसने’ इत्यस्मात् पचाद्यचि ज्ञेयम्।
  • ↑ ८। ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इति भावे, आदिकर्मणि च या निष्ठा, तत्र विषये इण्निषेधस्य विकल्पनात् फलितम् इत्यपि साधुरिति ज्ञेयम्।
  • ↑ ९। ‘उत्फुल्लसम्फुल्लयोरुपसंख्यानम्’ (वा। ८-२-५५) इति वचनादत्रापि निण्ठातकारस्य लत्वमिति ज्ञेयम्। क्तवत्वन्तस्यापीदं लत्वमिति वृत्तिकारेष्टेः तत्रापि लत्वम्।
  • ↑ [पृष्ठम्०९१४+ २६]
  • ↑ १। कर्तरि, लिटः क्वसौ, ‘तॄफलभजत्रपश्च’ (६-४-१२२) इत्येत्वाभ्यासलोपे, ‘वस्वे- काजाद्घसाम्’ (७-२-६७) इतीडागमे च रूपम्।
  • ↑ २। यङन्तात् यकि, ‘हलो यमां यमि लोपः’ (८-४-६४) इति यङो यकारस्य विकल्पेन लोपः। लोपाभावपक्षे तु ‘फम्फुल्य्यमानः’ इत्यपि साधुः। एवं यङन्तात् ल्यप्यपि ज्ञेयम्।
  • ↑ ३। क्तिनि, इण्निषेधे, ‘ति च’ (७-४-८९) इत्युत्वे रूपमेवम्।
  • ↑ ४। ‘फलिपाटि--’ (द। उ। १-१०३) इत्युप्रत्यये गुगागमे च रूपम्। फल्गुः = असारः।


फल निष्पत्तौ


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- फलति

अर्थ−
१. उत्पन्न गर्नु, फल्नु,
२. सफल गर्नु ।

कृदन्तरूपमाला

  • 1“फल निष्पत्तौ” 2 ‘निष्पत्तिः = सिद्धिः।’ इति क्षीरस्वामी।
  • ‘फलेर्विशरणे फुल्लं फलितं फलति त्रयम्।।
  • आदितो, ऽनादितस्त्वन्त्ये रूपे निष्पत्तिवाचिनः।’ 3 इति देवः।
  • फालकः-लिका, फालकः-लिका, पिफलिषकः-षिका, पाफलकः-लिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककलतिवत् 4 ज्ञेयानि।
  • फलितम्, 5 फलम्, 6 त्रिफला, 7 संफला-भस्त्रफला-अजिनफला-शणफला-पिण्डफला, 8 9 फालः, 10 दासीफली इति रूपाण्यस्य भवन्तीति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१०८९)
  • ↑ (१-भ्वादिः-५३०। अक। सेट्। पर।)
  • ↑ (श्लो। १५८-१५९)
  • ↑ (१७४)
  • ↑ ४। फलतीति फलम्, कर्तरि पचादित्वादच्। लोकप्रयोगात् क्लीबत्वम्।
  • ↑ ५। अजादिषु (४-१-४) दर्शनात् स्त्रियां टाप् भवति। ङीषपवादः।
  • ↑ ६। ‘पाककर्णपर्णपुष्पफल--’ (४-१-६४) इति प्राप्तं ङीषे बाधित्वा, ‘संभस्त्राजिनशण- पिण्डेभ्यः फलात्’ (ग। सू। ४-१-४) इति टाप्। भस्त्रफला इत्यत्र ‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ (६-३-६३) इति ह्रस्वः।
  • ↑ [पृष्ठम्०९१३+ २८]
  • ↑ १। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। फल्यते = निष्पाद्यतेऽनेन धान्यादिकमिति फालः = हलः।
  • ↑ २। ‘पाककर्णपर्णपुष्पफलमूल--’ (४-१-६४) इति जातिवाचिनः फलोत्तरपदादस्मात् स्त्रियां ङीष्।



Correction: