संस्कृत-शब्दकोशः

प्रबोधन प्रबोधिनी

प्रबोधनी

वाचस्पत्यम्

प्रबोधनी ||‍ स्त्री प्रबोध्यते हरिरत्र प्र + बुध—णिच् आधारे ल्युट् ङीप् । कार्त्तिकशुक्लैकादश्याम् तत्र शयितस्य हरेरुत्था- पनानुकूलव्यापारस्याचरणात्तस्यास्तथात्वम् । उत्थानैका- दशीशब्दे तस्याः खण्डभेदस्य ग्राह्यता दर्शिता । तन्माहात्म्यं च पद्मपु० उ० ख० १२६ अ० उक्तं यथा “ब्रह्मोवाच प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यबर्द्ध- नम् । मुक्तिदं शुद्धबुद्धीनां शृणुष्व मुनिसत्तम! । ता- वद्गर्जन्ति तीर्थानि पुण्यान्यायतनानि च । यावत् प्रबो- धनी विष्णोस्तिथिर्नायाति कार्त्तिके । अश्वमेधसहस्राणि वाजपेयशतानि च । एकेनैवोपवासेन प्रबोधन्यां भवन्ति हि । मेरुमन्दरतुल्यानि पापानि सुबहून्यपि । भस्म० सात् कुरुते मर्त्यो हरिबोधन्युपासनात् । पूर्वजन्मसह- स्रेषु यत्पापं समुपार्जितम् । जागरणं प्रबोधन्यां द- हते तूलराशिवत् । उपवासं प्रबोधन्यां यः करोति समाहितः । विधिवच्च मुनिश्रेष्ठ! यथोक्तं लमते फ लम् । यानि कानि च तीर्थानि त्रैलोक्ये संवसन्ति वै । तानि तस्य गृहे सम्यक् कृता येन प्रवोधनी । किं तस्य बहुभिः पुण्यैः सुरलोकसुखप्रदैः । ऊर्जे सन्तो- षिता येन संपूणां हरिबोधनी । बोधनीं समुपोष्यैव मुक्तिभागी भवेन्नरः । प्रबोधन्यां नरश्रेष्ठ! न पुनर्गर्भ- मादिशेत् । स्नानं दानं जपो होमः समुद्दिश्य जना- र्दनम् । नरैर्यत् क्रियते ऊर्जे प्रबोधन्यां तदक्षयम् । येऽर्चयन्ति नरास्तस्यां भक्त्या विष्णुं जगत्पतिम् । उ- षित्वा वाधनीं ते तु प्रभवेयुर्द्दिवौकसः । महाव्रतमिदं पुत्र! महापापौधनाशनम् । प्रबोधन्यां मुने! विष्णोर्वि- धिवत् समुपोषणम् । स ज्ञानी च स यीगी च स तपस्वी जितेन्द्रियः । स्वर्गमोक्षौ च तस्यास्तां य उपास्ते प्रवो- धनीम् । यत्तु जन्मकृतं पापं स्वल्पं वा यदि वा बहु । करोति भस्मसाद्विष्णुः प्रवोधन्यां प्रपूजितः । हरिपूजा विधातव्या कार्त्तिके बोधवासरे । गीतशास्त्रविनोदेन प्रबोधन्यान्तु जागरात् । चन्द्रसूर्य्योपरागे च यत् फलं परिकीर्त्तितम् । तस्मात् सहस्रगुणितं प्रबोधन्यां हि जागरात् । स्तानं दानं जपो होपः स्वाध्यायश्चार्चनं हरेः । एतस्मात् कोटिगुणितं प्रबोधन्यां हि जागरात्” । स्कान्दे प्रभृति यत्पुण्यं नरेणोपार्जितं भुवि । वृथा भवति तत्सर्वं न कृत्वा बोधवासरम्” । “प्रबो- धन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् । मुक्तिदं कृतबुद्धीनां शृणु त्वं मुनिसत्तम! । तावद्गर्जति वि- प्रेन्द्र! गङ्गाभागीरथी क्षितौ । यावन्नायाति पापघ्नी कार्त्तिके हरिबोधनी । तावद्गर्जन्ति तीर्थनि आस- मुद्रसरांसि च । यावत् प्रबोधनी विष्णोस्तिथिर्ना- याति कार्त्तिके । वाजपेयसहस्राणि अश्वमेधशतानि च । एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः । दुर्लभञ्चैव दुष्प्रापं त्रैलोक्ये सचराचरे । तदापि प्रार्थितं विप्र! ददाति हरिबोधनी । ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्च सुखसम्पदः । ददात्युपोषिता विप्र! हेलया हरि- बोधनी । मेरुमन्दरतुल्यानि पापान्यत्यूर्जितान्यपि । एकेनैवोपवासेन दहते हरिबोधनी । पृथिव्यां यानि दानानि दत्त्वा यत् फलमाप्नुते । एकेनैवोपवासेन ददाति हरिबोधनी” हरि० वि० ।


शब्दकल्पद्रुमः

प्रबोधनी || स्त्री (प्रबोध्यतेऽनयेति । प्र + बुध् + णिच् + ल्युट् + ङीप् ।)
दुरालभा । इति राज- निर्घण्टः ॥ (प्रबुध्यते हरिरत्रेति ।)
श्रीहरे- रुत्थानैकादश्यादिः । अथ प्रबोधनीकृत्यम् । “शयन्यामिव कृत्यास्यां क्षीराम्भोधिमहोत्सवम् । प्रबोध्य कृष्णं संपूज्य विधिनारोहयेद्रथम् ॥” अथ प्रबोधनीकृत्यनित्यता । स्कान्दे तत्रैव । “जन्मप्रभृति यत् पुण्यं नरेणोपार्जितं भुवि । वृथा भवति तत्मर्व्वं न कृत्वा बोधवासरम् ॥” अथ प्रबोधनीमाहात्म्यम् । तत्रैव । “प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् । मुक्तिदं कृतबुद्धीनां शृणु त्वं मुनिसत्तम ! ॥ तावद्गर्जति विप्रेन्द्र ! गङ्गा भागीरथी क्षितौ । यावन्नायाति पापघ्नी कार्त्तिके हरिबोधनी ॥ तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि च । यावत् प्रबोधनी विष्णोस्तिथिर्नायाति कार्त्तिके ॥ वाजपेयसहस्राणि अश्वमेधशतानि च । एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः ॥ दुर्लभञ्चैव दुष्प्रापं त्रैलोक्ये सचराचरे । तदपि प्रार्थितं विप्र ! ददाति हरिबोधनी ॥ ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्च सुखसम्पदः । ददात्युपोषिता विप्र ! हेलया हरिबोधनी ॥ मेरुमन्दरतुल्यानि पापान्यत्युर्जितान्यपि । एकेनैवोपवासेन दहते हरिबोधनी ॥ पृथिव्यां यानि दानानि दत्त्वा यत् फलमाप्नुते । एकेनैवोपवासेन ददाति हरिबोधनी ॥” किञ्च । “जातः स एव सुकृती कुलं तेनैव पावितम् । कार्त्तिके मुनिशार्द्दूल ! कृता येन प्रबोधनी ॥ यानि कानि च तीर्थानि त्रैलोक्ये सम्भवन्ति च । तानि तस्य गृहे सम्यक् यः करोति प्रबोधनीम् ॥ सर्व्वं कृत्यं परित्यज्य तुष्ट्यर्थं चक्रपाणिनः । उपोष्यैकादशी सम्यक् कार्त्तिके हरिबोधनी ॥ किं तस्य बहुभिः कृत्यैः परलोकप्रदैर्मुने ! । सकृच्चोपोषिता येन कार्त्तिके हरिबोधनी ॥ स ज्ञानी स हि योगी च स तपस्वी जिते- न्द्रियः । स्वर्गमोक्षौ च तस्यास्तामुपास्ते हरिबोधनीम् ॥ विष्णोः पियतमा ह्येषा धर्म्मसारस्य दायिनी । इमां सकृदुपोष्यैव मुक्तिभागी भवेन्नरः ॥ प्रबोधनीमुपोष्यैव न गर्भं विशते नरः । सर्व्वधर्म्मान् परित्यज्य तस्मात् कुर्व्वीत नारद ! ॥ स्नानं दानं तपो होमः समुद्दिश्य जनार्द्दंनम् । नरैर्यत् क्रियते विप्र ! प्रबोधन्यां तदक्षयम् । महाव्रतमिदं पुत्त्र ! महापापौघनाशनम् । प्रबोधवासरं विष्णोर्विधिवत् समुपोषयेत् ॥ ब्रतेनानेन देवेशं परितोष्य जनार्द्दनम् । विराजयन् दिशो दीप्त्या प्रयाति भुवनं हरेः ॥” पाद्मे च तत्रैव । “दुग्धाब्धिभोगिशयने भगवाननन्तो यस्मिन्दिने स्वपिति चाथ विबुध्यते च । तस्मिन्ननन्यमनसामुपवासभाजां पुंसां ददात्यभिमतं गरुडाङ्कशायी ॥” वाराहे च । “उपवासासमर्थानां सदैव पृथुलोचने ! । एका सा द्वादशी पुण्या समुपोष्या प्रबोधनी ॥ तस्यामाराध्य विश्वेशं जगतामीश्वरेश्वरम् । प्राप्नोति सकलं तद्धि द्वादशद्वादशीव्रतम् ॥ उत्तराङ्गारकयुता यदि सा भवति प्रिये ! । तदा सा महती पुण्या कोटिकोटिगुणोत्तरा ॥ शयने बोथने चेव कटिदाने च सुन्दरि ! । उपोष्यैव विधानेन यान्ति मल्लयतां नराः ॥ एकादशी सोमयुता कार्त्तिके मासि भाविनि ! उत्तराभाद्रसंयोगे अनन्ता सा प्रकीर्त्तिता ॥ तस्यां यत् क्रियते भद्रे ! सर्व्वमानन्त्यमश्नुते । अनन्तपुण्यफलदा तेनानन्ता स्मृता फले ॥” तत्रैव श्रीयमनारदसंवादे । “अन्यच्च ते प्रवक्ष्यामि गुह्याद्गुह्यतरं मुने ! । कार्त्तिकेऽमलपक्षे तु साक्षादेकादशी स्मृता ॥ भक्तिप्रदा हरेः सा तु नाम्ना ख्याता प्रबोधनी । या सा विष्णोः परा मूर्त्तिरव्यक्तानेकरूपिणी ॥ सा क्षिप्ता मानुषे लोके द्वादशी मुनिपुङ्गव ! ॥” श्रीमथुरायाञ्च विशेषतः पाद्मे तत्रैव । “तावद्गर्ज्जन्ति तीर्थानि वाजिमेधादयो मखाः । मथुरायां प्रिया विष्णोर्यावन्नायाति बोधनी ॥ संसारदावतप्तानां कामसौख्यपिपासिनाम् । श्रीकृष्णपादपद्मस्य सान्निध्यं शीतलं गृहम् ॥ भवपान्थजनानां वै प्रापिकेयं प्रबोधनी । कथं न सेव्यते मूढैर्मथुरायां किमन्यतः ॥” * ॥
अथ विशेषतः प्रबोधन्यां श्रीभगवत्पूजादि- माहात्म्यम् । स्कान्दे तत्रैव प्रबोधनीमाहात्म्ये । “येऽर्च्चयन्ति नरास्तस्यां भक्त्या देवन्तु माधवम् । समुपोष्य प्रमुच्यन्ते पापैस्ते समुपार्ज्जितैः ॥ बाल्ये यच्चार्ज्जितं वत्स ! यौवने बार्द्धके च यत् । सप्तजन्मकृतं पापं स्वल्षं वा यदि वा बहु ॥ शुष्कार्द्रं मुनिशाद्र्दूल ! सुगुह्यमपि नारद ! । तत् क्षालयति गोविन्दस्तिथौ तस्यां प्रपूजितः ॥” किञ्च । “प्रबोधवासरे विष्णोः कुरुते च हरेः कथाम् । सप्तद्वीपावनीदाने यत् फलं तद्भवेन्मुने ! ॥” वाराहे च । “कौमुदस्य तु मासस्य या सिता द्वादशी भवेत् । अर्च्चयेद्यस्तु मां तत्र तस्य पुण्यफलं शृणु ॥ यावल्लोका हि वर्त्तन्ते यावत्त्वञ्चैव माधवि ! । मद्भक्तो जायते तावदत्यभक्तो न जायते ॥” * ॥
तस्या अनुष्ठानं यथा, — ब्रह्मोवाच । “शृणु मे भक्तितः पुत्त्र ! बोधन्येकादशी हरेः । उपोष्या येन विधिना तं विप्र ! प्रवदामि ते ॥ कार्त्तिके शुक्लपक्षे तु दशम्यां नियतः शुचिः । स्नात्वा देवार्च्चनं कृत्वा वह्निकार्य्यं यथाविधि ॥ आचान्तः सुप्रसन्नात्मा हविष्यान्नं सुसंस्कृतम् । भुक्त्वाचम्य स्वपेत् सम्यक् कृत्वा शौचञ्च पादयोः ॥ रात्रेश्च पश्चिमे यामे समुत्थाय यथाविधि । कृत्वा मूत्रपुरीषे तु शौचं कुर्य्यादतन्द्रितः ॥ कृत्वाष्टाङ्गुलमात्रन्तु क्षीरवृक्षसमुद्भवम् । भक्षयेद्दन्तकाष्ठञ्च स्नात्वाचामेत् प्रयत्नतः ॥ मृष्ट्वाङ्गानि तथाद्भिश्च चिरं ध्यायेज्जनार्द्दनम् । अतसीपुष्पसङ्काशं कमलाक्षं चतुर्भुजम् ॥ शङ्खचक्रगदाशार्ङ्गपीतवस्त्रं किरीटिनम् । प्रसन्नवदनं देवं सर्व्वलक्षणलक्षितम् ॥ ततश्चानुदये वारिहस्तेन परिगृह्य च । कुशान्वितं प्रगृह्णीयात् नियमं विष्णुतुष्टये ॥ ध्यात्वा जलं गृहीत्वा तु भानुरूपं जनार्द्दनम् । दृष्ट्वार्घ्यं दापयेत् पश्चात् करतोयेन मानवम् ॥ एवमुच्चारयेद्बाचं तस्मिन् काले महामुने ! । एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि । भोक्ष्येऽहं पुण्डरीकाक्ष ! शरणं मे भवाच्युत ! ॥ एवमुक्त्वा ततः सम्यक् नित्यकर्म्म सुकर्म्मधीः । समर्पयेद्विधानेन विष्णुं संपूजयेन्मुने ! ॥ सहस्रसंख्यया सुस्थः सावित्रीं संजपेद्द्विजः । सर्व्वपापक्षयकरीं ब्रतस्य परिपूर्त्तये ॥” इति पाद्मोत्तरखण्डे १२६ अध्यायः ॥ * ॥
अथ प्रबोधकालनिर्णयः । भविष्ये । “आ-भा-का-सितपक्षेषु मैत्रश्रवणरेवती । आदिमध्यावसानेषु प्रस्वापावर्त्तनादिकम् ॥” पाद्मे । “पौष्णशेषो यदा नाह्नि मैत्राद्यमपि नो निशि । द्वादश्यामपि तत् कुर्य्यादुत्थानं शयनं हरेः ॥ निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् । अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत् ॥” वाराहे च । “अपादनियमस्तत्र स्वापे वा परिवर्त्तने । पादयोगो यदा न स्यादृक्षेणापि तदा भवेत् ॥” किञ्च स्कान्दे । “रेवत्यन्तो यदा रात्रौ द्वादश्या च समन्वितः । तदा विबुध्यते विष्णुर्दिनान्ते प्राप्य रेवतीम् ॥ रेवत्यादिरथान्तो वा द्वादश्या च विना भवेत् । उभयोरप्यभावे तु सन्ध्यायाञ्च महोत्सवः ॥” वाराहे च । “द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे । आ-भा-का-सितपक्षेषु शयनावर्त्तनादिकम् ॥” अतएव पुष्करपुराणे । “यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या । तस्य देवस्य तस्मिंश्च शयनावर्त्तनादिकम् ॥” * ॥
अथ भगवत्प्रबोधनविधिः । “शयन्यामिव निष्पाद्य महापूजां जलाशये । कृष्णं नीत्वाथ सङ्कल्पं कृत्वा तञ्च प्रबोधयेत् ॥” तत्र मन्त्रः । “ब्रह्मेन्द्ररुद्राग्निकुवेरसूर्य्य- सोमादिभिर्वन्दितपादपद्मः । बुध्यस्व देवेश जगन्निवास ! मन्त्रप्रभावेण सुखेन देव ! ॥” इत्यन्तु द्वादशी देव प्रबोधार्थं विनिर्म्मिता । त्वयैव सर्व्वलोकानां हितार्थं शेषशायिना ॥ उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज निद्रां जगत्पते ! । त्वयि सुप्ते जगत् सुप्तमुत्थिते चोत्थितं भवेत् ॥ गता मेघा वियच्चैव निर्म्मलं निर्म्मला दिशः । शारदानि च पुष्पाणि गृहाण मम केशवेति ॥” उत्तिष्ठोत्तिष्ठेत्यत्र क्वचिच्चैवम् । “त्वयि सुप्ते जगन्नाथे जगत् सुप्तं भवेदिदम् । उत्थिते चेष्टते सर्व्वमुत्तिष्ठोत्तिष्ठ माधवेति ॥” वाराहे च । “ब्रह्मेन्द्ररुद्रैरवितर्क्यभावो भवानृषिर्वन्दितवन्दनीयः । प्राप्ता तव द्वादशी कौमुदाख्या जागृष्व जागृष्व च लोकनाथ ! ॥ मेघा गता निर्म्मलपूर्णचन्द्रः शारद्यपुष्पाणि च लोकनाथ ! । अहं ददानीति च भक्तिहेतो- र्जागृष्व जागृष्व च लोकनाथ ! ॥” श्रुतिश्च । “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पांशुले” इत्यादि । “ततस्तल्पात् समुत्थाप्य कृष्णं घण्टादिनिस्वनैः । तीरे सुखं निवेश्याथ प्रार्थयेत्तदनुग्रहम् ॥ तथा हि तृतीयस्कन्धे श्रीब्रह्मस्तुतौ । “सोऽसावदभ्रकरुणो भगवान् विवृद्ध- प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्वविजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥” इति । “ततः पुष्पाञ्जलिं दत्त्वा संस्थाप्य विधिवत् प्रभुम् । नीराज्य न्यासपूर्ब्बञ्च वस्त्रादीनि समर्पयेत् ॥” तथा च ब्राह्मे । “एकादश्यान्तु शुक्लायां कार्त्तिके मासि केशवम् । प्रसुप्तं बोधयेद्रात्रौ भक्तिश्रद्धासमन्वितः ॥ नृत्यैर्गीतैस्तथा वाद्यैरृग्यजुःसाममङ्गलैः । विना पणवशब्दैश्च पुराणश्रवणेन च ॥ वासुदेवकथाभिश्च स्तोत्रैरन्यैश्च वैष्णवैः । सुभाषितैरिन्द्रजालैर्भूमिशोभाभिरेव च ॥ पुष्पैर्धपैश्च नैवेद्यैर्दीपवृक्षैः सुशोभनैः । होमैर्भक्षैरपूपैश्च फलैः शाकैश्च पायसैः ॥ इक्षोर्विकारैर्मधुना द्राक्षाक्षौद्रैः सदाडिमैः । कुठेरकस्य मञ्जर्य्या मालत्या नवनेन च ॥” नवनं पुष्पविशेषः । “हृद्याभ्यां श्वेतरक्ताभ्यां चन्दनाभ्याञ्च सर्व्वदा । कुङ्कुमालक्तकाभ्याञ्च रक्तसूत्रैः सकुङ्कुमैः ॥ तथा नानाविधैः पुष्पैर्द्रव्यैर्वीरक्रयाहृतैः ॥” एवमेव प्रायः पाद्मे च ! तथा स्कान्दे च । “बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुङ्कुमैः ॥ हरेः पूजा विधातव्या कार्त्तिके बोधवासरे ॥” इति ॥ “इत्थं कृत्वा महापूजां महानीराजनं तथा । स्वव्रतान्यर्पयेत् कृष्णे सपुष्पाक्षतवारिणा ॥ वेदस्तुत्यादिना स्तुत्वा स्वस्त्यस्त्वित्यादिना प्रभुम् । संप्रार्थ्य गीतवाद्यादिघोषैरारोहयेद्रथम् ॥” तथा च भविष्योत्तरे श्रीकृष्णयुधिष्ठिरसंवादे । “महातूर्य्यरवै रात्रौ भ्रामयेत् स्यन्दने स्थितम् ॥ उत्थितं देवदेवेशं नगरे पार्थिवः स्वयम् । दीपोद्योतकरे मार्गे नृत्यगीतसमाकुले ॥” अथ रथयात्रामाहात्म्यं भविष्योत्तरे तत्रैव । “यं यं दामोदरः पश्येदुत्थितो धरणीधरः । तं तं प्रदेशं राजेन्द्र ! सर्व्वं स्वर्गाय कल्पयेत् ॥” किञ्च । “यावत्पदानि कृष्णस्य रथस्याकर्षणं नरः । करोति क्रतुभिस्तानि तुल्यानि नरनायक ! ॥ रथस्थं ये निरीक्षन्ते कौतुकेनापि केशवम् । देवतानां गणाः सर्व्वे भवन्ति श्वपचादयः ॥ स्त्रियोऽपि मुक्तिमायान्ति रथयात्रापरायणाः पितृमातृभर्त्तृकुलं नयन्ति हरिमन्दिरम् ॥ कुर्व्वन्ति नर्त्तकीरूपं रथाग्रे कौतुकान्वितम् । अप्सरोभिः सह क्रीडां कुर्व्वन्तीन्द्राश्चतुर्द्दश ॥ ये रथाग्रे प्रकुर्व्वन्ति गीतवाद्यादि मानवाः । देवलोकात् परिभ्रष्टा जायन्ते मण्डलेश्वराः ॥ मौल्येन स्यन्दनस्याग्रे गायमानाश्च गायकाः । वादकैः सह राजेन्द्र ! प्रयान्ति हरिमन्दिरम् रथोत्सवे मुकुन्दस्य येषां हर्षोऽपि जायते । तेषां न नारकी पीडा यावदिन्द्राश्चतुर्द्दश ॥ रथोत्सवस्य माहात्म्यं कलौ वितनुत हि यः । पुण्यबुद्ध्या विशेषेण लोभेनाप्यथवा नरः ॥ सप्तद्वीपसमुद्रान्ता रत्नधान्यसमन्विता । सशैलवनपुष्पाढ्या तेन दत्ता मही भवेत् ॥” अन्यत्र च । “बोधनी जगदाधारा कार्त्तिके शुक्लपक्षतः । रथस्थो यत्र भगवांस्तुष्टो यच्छति वाञ्छितम् ॥ भजन्ते ये रथारूढं देवं सर्व्वेश्वरेश्वरम् । तेषां यात्रा कृता नॄणां कामानिष्टान् प्रयच्छति ॥ श्रीकृष्णरथशोभां ये प्रकुर्व्वन्ति प्रहर्षिताः । तेषां मनोरथावाप्तिं यच्छते पुरुषोत्तमः ॥ कृष्णस्य रथशोभां ये प्रकुर्व्वन्ति स्वशक्तितः । वाञ्छितं तेभ्यो यच्छन्ति नित्यं सूर्य्यादयो ग्रहाः ॥ कृष्णस्य रथशोभां ये प्रकुर्व्वन्ति सुहर्षिताः । पदे पदे तथा पुत्त्र ! पुण्यं तेषां प्रयागजम् ॥ रथयात्रास्थिते कृष्णे जयेति प्रवदन्ति ये । जयेति च पुनर्ये वै शृणु पुण्यं वदाम्यहम् ॥ गङ्गाद्बारे प्रयागे च गङ्गासागरसङ्गमे ॥ वाराणस्यादितीर्थेषु देवानाञ्चैव दर्शने । यत् पुण्यं कविभिः प्रोक्तं कार्त्स्नेन च नरेश्वर ! ॥ जयशब्दे कृते विष्णौ रथस्थे तत् फलं स्मृतम् । रथस्थितो नरैर्यस्तु पूजितो धरणीधरः । यथालाभोपपन्नैश्च पुष्पैर्भक्त्या समर्च्चितः ॥ ददाति वाञ्छितान् कामानन्ते च परमं पदम् । मङ्गलं ये प्रकुर्व्वन्ति धूपदीपांस्तथा स्तवम् ॥ नैवेद्यं वस्त्रपूजाञ्च भक्त्या नीराजनं हरेः । रथारूढस्य कृष्णस्य संप्राप्ते हरिवासरे ॥ फलं न तन्मया ज्ञातं जानाति यदि केशवः । ब्रह्मस्वहारी गोघ्नश्च भ्रूणहा ब्रह्मनिन्दकः ॥ महापातकयुक्तोऽपि ब्रह्महा गुरुतल्पगः । मद्यपः सर्व्वपापोऽपि कलिकालेन मोहितः ॥ रथाग्रतः पदैकेन मुच्यते सर्व्वपातकैः ॥” किञ्चान्यत्र । “रथारूढे महाविष्णौ ये कुर्व्वन्ति जयस्वनम् । पूजाञ्चाखिलपापेभ्यो मुक्ता यान्ति हरेः पदम् ॥” किञ्च । “रथस्याकर्षणं पूर्ब्बं कुरुते दैत्यनायकः । ततः सुराः सिद्धसङ्घा यक्षा गन्धर्व्वमानवाः ॥ इत्थञ्च रथयात्राया विधिर्व्यक्तः स्वतोऽभवत् । तथापि कश्चित्तत्रान्यो विशेषोऽपि वितन्यते ॥” अथ रथयात्राविघिः । “श्रीकृष्णे तु रथारूढे कृत्वा जयजयध्वनिम् । निष्पाद्य च महापूजामाशीर्वाक्यानि कीर्त्त- येत् ॥” तथा च विष्णुधर्म्मे । “वक्त्रं नीलोत्पलरुचि लसत्कुण्डलाभ्यां सुमृष्टं चन्द्राकारं रचिततिलकं चन्दनेनाक्षतैश्च । गत्या लीलां जनसुखकरीं प्रेक्षणेनामृतौघं पद्मावासां सततमुरसा धारयन् पातु विष्णुः ॥ युक्तः शैलादिवाहैर्मधुरतररणत्किङ्किणीजाल- मालै- रत्नौघैर्मोक्तिकानामविरतमणिभिः संभृतैश्चैव हारैः । हेमैः कुम्भैः पताकाशिवतररुचिभिर्भूषितः केतुमुख्यै- श्छत्रैर्ब्रह्मेशवन्द्यो दुरितहरहरेः पातु जैत्रो रथो वः ॥ मोदन्तां सुजना ह्यनिन्दितधियः स्रस्ताखिलो- पद्रवाः स्वस्थाः सुस्थिरबुद्धयः प्रतिहतामित्रा रमन्तां मुखम् । रेदैत्या गिरिगह्वराणि गहनान्याशु व्रजध्वं भया- द्दैत्यारिर्भगवानयं यदुपतिर्यानं समारोहति ॥ पलायध्वं पलायध्वं रे रे दितिजदानवाः । संरक्षणाय लोकानां रथारूढो नृकेशरी ॥ ततो विचित्रगद्यानि पठित्वाथ महाप्रभोः । महाप्रसादमालाञ्च स्वीकुर्य्यात् परया मुदा ॥” तन्माहात्म्यञ्चोक्तम् । “भक्त्या गृह्णाति यो मालां वैष्णवीं मङ्गला- श्रयाम् । न तेषां दुर्लभं किञ्चिदिह लोके परत्र च ॥ तस्मात् सर्व्वप्रयत्नेन सर्व्वकामसमृद्धये । मालामेतां प्रगृह्णीयात् सौख्यमोक्षप्रदायि- नीम् ॥” इति ॥ “संचिन्त्याकृष्यमाणञ्च श्रीप्रह्लादादिभी रथम् । आकृष्य प्रेरयन् पूर्य्यां भ्रामयेद्वैष्णवैः सह ॥” तथा च भविष्योत्तरे तत्रैव । “नृत्यमानैर्भागवतैर्गीतवादित्रनिस्वनैः । भ्रामयेत् स्यन्दनं विष्णोः पुरमध्ये समन्ततः ॥” किञ्च । “प्रबोधवासरे प्राप्ते कार्त्तिके पाण्डुनन्दन ! । देवालयेषु सर्व्वेषु पुर्मध्ये समन्ततः ॥ भ्रामयेत्तूर्य्यनिघोषै रथस्थं धरणीधरम् ॥” किञ्च । “रथागमे मुकुन्दस्य पुरशोभान्तु कारयेत् । सर्व्वतो रमणीयन्तु पताकैरुपशोभितम् ॥ तोरणैर्बहुभिर्युक्तै रम्भास्तम्भैश्च शोभितम् । स्थाने स्थाने महीपाल ! कर्त्तव्यं पुण्यसंयुतम् ॥ विचित्ररथशोभा च कर्त्तव्या भावितैर्नरैरिति ॥ रथेन गच्छन् भगवाननुगम्योऽखिलैर्जनैः । स्वस्वगेहागतश्चार्च्च्योऽन्यथा दोषो महान् भवेत् ॥” * ॥
अथ रथानुगमननित्यता । तत्रैव । “रथेन सह गच्छन्ति पार्श्वतः पृष्ठतोऽग्रतः । विष्णुनैव समाः सर्व्वे भवन्ति श्वपचादयः ॥ रथस्थं ये न गच्छन्ति भ्रममाणं जनार्द्दनम् । विप्राध्ययनसम्पन्ना भवन्ति श्वपचाधमाः ॥” किञ्च । “येषां गृहागतो याति रथस्थो मधुसूदनः । पूजा तैस्तैः प्रकर्त्तव्या वित्तशाठ्यविवर्ज्जितैः ॥ अनर्च्चितो यदा याति गृहाद्यस्य महीधरः । पितरस्तस्य विमुखा वर्षाणां दश पञ्च च ॥ यः पुनः कुरुते पूजां गृहायाते तु माधवे । वसते श्वेतद्वीपे तु यावविन्द्राश्चतुर्द्दश ॥” अन्यत्र । “नानुव्रजति यो मोहाद्व्रजन्तं जगदीश्वरम् । ज्ञानाग्निदग्धकर्म्मापि स भवेद्ब्रह्मराक्षसः ॥” इति ॥ “अथ स्वमन्दिरं नीत्वा पूर्ब्बवत् पूजयेत् प्रभुम् । रात्रौ जागरणं कुर्य्याद्बिधिवद्वैष्णवैः समम् ॥” अथ प्रबोधनीजागरणमाहात्म्यम् । स्कान्दे तत्रैव । “पूर्ब्बजन्मसहस्रेषु पापं यत् समुपार्ज्जितम् । जागरेण प्रबोधन्यां दह्यते तूलराशिवत् ॥ कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः । कृत्वा जागरणं विष्णोर्धूतपापो भवेन्मुने ! ॥ कर्म्मणा मनसा वाचा पापं यत् समुपार्ज्जितम् । क्षालयेत्तच्च गोविन्दः प्रबोधन्यान्तु जागरे ॥ दुष्प्राप्यं यत् फलं विप्रैरश्वमेधादिभिर्मखैः । प्राप्यते तत् सुखेनैव प्रबोधन्यान्तु जागरे ॥ आप्लुत्य सर्व्वतीर्थानि दत्त्वा गां काञ्चनीं महीम् । न तत् फलमवाप्नोति यत् कृत्वा जागरं हरेः ॥ चन्द्रसूर्य्योपरागे तु यत् फलं परिकीर्त्तितम् । तत्सहस्रगुणं पुण्यं प्रबोधन्यान्तु जागरे ॥ स्नानं दानं तपो होमः स्वाध्यायश्चार्च्चनं हरेः । तत् सर्व्वं कोटिगुणितं प्रबोधन्यान्तु जागरे ॥ समतीतं भविष्यञ्च वर्त्तमानं कुलायुतम् । विष्णुलोकं नयत्याशु जागरेण प्रबोधनी ॥ चलन्ति पितरो हृष्टा विष्णुलोकमलङ्कृताः । विमुक्ता नारकैर्दुःखैः कर्त्तुः कृष्णप्रजागरम् ॥ भार्य्यापक्षे तु ये जाता मातृतः पितृतस्तथा । तारयेन्नात्र सन्देहः प्रबोधन्यां तु जागरे ॥” किञ्च । “फलैर्नानाविधैर्द्रव्यैः प्रबोधन्यान्तु जागरे । शङ्खे तोयं समादाय अर्घ्यं दद्याज्जनार्द्दने ॥ यत् फलं सर्व्वदानेषु सर्व्वतीर्थेषु यत् फलम् । तत् सर्व्वं कोटिगुणितं दत्त्वार्घ्यं बोधवासरे ॥” पाद्मे च तत्रैव । “अन्यत्रापि प्रिया विष्णोर्जागरे स्यात् प्रबो- धनी । किं पुनर्मथुरायां सा ततो वै जन्मसद्मनि ॥ एकेवैकादशी कृष्णजन्मगेहे कृता नरैः । ततोऽधिकं न कर्त्तव्यं लोके किञ्चन विद्यते ॥ रात्रौ जागरणं तत्र प्रीत्या कुर्व्वन्ति ये नराः । संसारे मोहस्वप्नान्ते सदा जाग्रति जाग्रति ॥” किञ्च तत्रैव श्रीराधिकोपाख्यानान्ते । “सुबोधनीजागरपुण्यवैभवात् प्रसन्न ईशो विधिवाक्यसत्यकृत् । चकार रासोत्सवनर्त्तनं सह वृन्दावनेऽन्याभिरपीह राधया ॥ सा नृत्यमानाद्भुतगोपरूपिणा कृष्णेन जन्मान्तरवाञ्छितेन । राधा महाप्रेमजवाकुलेन्द्रिया निन्येऽन्यलोकं कथया कृतार्थताम् ॥ तस्मात् सुबोधनीं कृत्वा रात्रौ कृत्वा च जागरम् । सुप्तोत्थितं हरिं दृष्ट्वा का भीः संसारजा द्विजाः ॥ मथुरायान्तु किं वाच्यं जागरे हरिसन्निधौ । कार्त्तिके वोधनीं प्राप्य ततः श्रेयः परं न हि ॥ मथुरायां प्रबोधन्यां कृतजागरणस्य हि । क्षणार्द्धदानतो वैश्योऽमोचयद्ब्रह्मराक्षसम् ॥ जागरस्य च माहात्म्यं गीतवादित्रनर्त्तनम् । हरेः प्रीतिकरं रात्रौ वक्तुं मे नैव शक्यते ॥ यस्तु गायति कृष्णाग्रे कौमुदीं द्वादशीं क्षणम् । सर्व्वलोकान् परित्यज्य विष्णुलोकं स गच्छति ॥” अतएवोक्तं तत्रैव । “राज्यमन्यत्र संत्यज्य स्फीतं निहतकण्टकम् । कार्त्तिके मथुरायां वै कौमुद्यां जागरं चरेत् ॥” अथ पारणादिनकृत्यम् । “प्रातर्नित्यक्रियां कृत्वा शक्त्या संभोज्य भूसुरान् । गृह्णन् कृतव्रताच्छैद्रं प्रदद्याद्दक्षिणादिकम् ॥ दानं यथाव्रतं तेभ्यो दत्त्वा पारणमाचरेत् । प्रवर्त्तयेच्च संत्यक्तं चातुर्मास्यव्रतेषु यत् ॥” तथा च भविष्योत्तरे तत्रैव । “प्रभाते विमले स्नात्वा भोजयेदन्नविस्तरैः ॥ घृतक्षीरदधिक्षौद्रकासारगुडमोदकैः । अर्च्चयेच्चन्दनैश्चूर्णैः पुष्पैर्गन्धैर्द्बिजोत्तमान् ॥ आचान्तेभ्यस्ततो दद्यात्त्यक्तं यत्किञ्चिदेव हि । सुवाचा सुमनोऽभीष्टपत्रपुष्यफलादिकम् ॥ चतुरो वार्षिकान्मासान् नियमं यस्य यत् कृतम् । कथयित्वा द्विजेभ्यस्तद्दद्याद्भक्त्या सुदक्षिणाम् ॥” एवमेव पाद्मे । तत्रैव किञ्चाधिकम् । “चातुर्म्मास्यव्रते विप्राः पश्चादच्छिद्रवाचनम् ॥” इति श्रीहरिभक्तिविलासे १६ विलासः ॥



Correction: