संस्कृत-शब्दकोशः

प्रभाञ्जन प्रभातीर

प्रभात

वाचस्पत्यम्

प्रभात ||‍ न० प्र + भा—भावे क्त प्रकृष्टं मातमत्र वा । १ प्रातःकाले अमरः । प्र + भा कर्त्तरि० क्त । २ प्रभायुक्ते त्रि० ३ वसुभेदे पु० । प्रभास इत्यत्र प्रभात इति मिता० पाठः । धरशब्दे ३८४७ पृ० दृश्यम् । प्रभातकाले दृश्या उक्ता राजवल्लभेन “वैद्यः पुरोहितो मन्त्री दैवज्ञीऽथ चतुर्थकः । प्रभात- काले द्रष्टव्यो नित्यं स्वश्रियमिच्छता” छन्दोगपरि० तत्र दृश्यादृश्यानाह यथा “श्रोत्रियं सुभगामग्निं गाञ्चै- वाग्निचितन्तथा । प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते । पापिष्ठं दुर्भगां मद्यं नग्नमुत्कृत्तनासिकम् । प्रातरुत्थाय यः पश्येत्तत् कलेरुपलक्षणम्” । प्रभातकाले स्मरणीयाः काशीखण्डे ३५ अ० दर्शिता यथा “स्वहितं चिन्तयेत् प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा । नजास्यं संस्मरेदादौ तत ईशं सहाम्बया । श्रीकान्तं श्रीसमेतं तु ब्रह्माण्या कमलोद्भवम् । इन्द्रादीन् सकलान्देवान् वशिष्ठादीन् मुनीनपि । गङ्गाद्या सरितः सर्वाः श्री- शैलाद्याखिलान् गिरीन् । क्षीरोदादीन् समुद्रांश्च मा- नसादिसरांसि च । वनानि नन्दनादीनि धेनूः काम- दुघादिकाः । कल्पवृक्षादिवृक्षांश्च धातून् काञ्चनमुख्यतः । दिव्यस्त्रीरुवंशीमुख्या गरुडादीन् पतत्त्रिणः । नागांश्च शेषप्रमुखान् गजानैरावतादिकान् । अश्वानुच्चैःश्रवो मुख्यान् कौस्तुभादीन् मणीन् शुभान् । स्मरेदरुन्धती मुख्याः पतिव्रतवतीर्बधूः । नैमिषादीन्यरण्यानि पुरीः काशीपुरीमुखाः । विश्वेशादीनि लिङ्गानि वेदानृक्- प्रमुखानपि । गायत्रीपमुखान् मन्त्रान् योगिनः स- नकादिकान् । प्रणयादिमहाबीजं नारदादींश्च वैष्ण- वान् । शिवभक्तांश्च वाणादीन् प्रह्लादादीन् दृढव्रतान् । वदान्यांश्च दधीच्यादीन् हरिश्चन्द्रादिभूपतीन् । जननी चरणौ स्मृत्वा सर्वतीर्थात्तमोत्तमौ । पितरं च गुरु- ञ्चापि हृदि ध्यत्वा प्रसन्नधीः । ततश्चावश्यकं कर्तुं नैरृतं दिशमाश्रयेत्” । “प्रभातायां तु शर्वर्य्याम्” भार० नानास्थाने ।


शब्दकल्पद्रुमः

प्रभातं || क्ली (प्रकर्षेण भातुं प्रवृत्तमिति । प्र + भा + आदिकर्म्मणि क्तः । यद्वा, प्रकृष्टं भातं दीप्तिरत्रेति ।)
प्रातःकालः । तत्पर्य्यायः । प्रत्यूषः २ अहर्मुखम् ३ कल्यम् ४ उषः ५ प्रत्युषः ६ । इत्यमरः । १ । ४ । ३ ॥ दिनादिः ७ निशान्तम् ८ व्युष्टम् ९ प्रगे १० प्राह्णम् ११ । इति राजनिर्घण्टः ॥ गोसः १२ गोसङ्गः १३ ऊषः १४ ऊषकम् १५ उषा १६ ऊषा १७ विभातम् १८ । इति शब्दरत्नावली ॥ * ॥
(यथा, —
“प्रभाते यः स्मरेन्नित्यं दुर्गा दुर्गाक्षरद्वयम् । आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा ॥” इति धर्म्मशास्त्रम् ॥)
तत्र दर्शनीया यथा, —
“वैद्यः पुरोहितो मन्त्री दैवज्ञोऽथ चतुर्थकः । प्रभातकाले द्रष्टव्यो नित्यं स्वश्रियमिच्छता ॥” इति राजवल्लभः ॥



Correction: