संस्कृत-शब्दकोशः

प्रभासन्त प्रभु

प्रभिन्न

वाचस्पत्यम्

प्रभिन्न ||‍ त्रि० प्र + भिद—क्त । १ प्रकृष्टभेदयुक्ते प्रभिन्नकटादिस्थलत्वात् क्षरन्मदे २ गजे पु० अमरः ।


शब्दकल्पद्रुमः

प्रभिन्नः || पुं, (प्र + भिद् + क्त ।)
क्षरन्मदहस्ती । तत्पर्य्यायः । गर्ज्जितः २ मत्तः ३ । इत्यमरः । २ । ८ । ३६ ॥ भ्रान्तः ४ मदकलः ५ । इति राजनिर्घण्टः ॥ (यथा, रामायणे । २ । १५ । ४६ । “ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम् । रामोपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम् ॥” तथा च महाभारते । ७ । २७ । २० । “यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः । मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमून्तव ॥”)
प्रकृष्टभेदविशिष्टे, त्रि ॥ (यथा, ऋतुसंहारे । २ । ५ । “प्रभिन्नवैदूर्य्यनिभैस्तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः ॥”)



Correction: