संस्कृत-शब्दकोशः

प्रमदवन प्रमदाकानन

प्रमदा

वाचस्पत्यम्

प्रमदा ||‍ स्त्री प्रमाद्यत्यनया प्र + मद—करणे अप् । १ उत्तमयो- षिति अमरः । “नजसजला गुरुश्च भवति प्रमदा” वृ० र० उक्ते एकादशाक्षरपादके २ वर्णवृत्तभेदे ।


शब्दकल्पद्रुमः

प्रमदा || स्त्री (प्रमदयति पुरुषमिति । प्र + मद हर्षे + णिच् + अच् । यद्वा, प्रमदो हर्षोऽस्त्यस्या इति अच् । टाप् ।)
उत्तमयोषित् । इति मेदिनी । दे, ५ ॥ (यथा, कुमारे । ४ । १२ । “नयनान्यरुणानि घूर्णयन् वचनानि स्खलयन् पदे पदे । असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥”)
चतुर्द्दशाक्षरवृत्तिविशेषः । तल्लक्षणं यथा, वृत्त- रत्नाकरटीकायाम् । “नजभजला गुरुश्च भवति प्रमदा ॥”)



Correction: