वाचस्पत्यम्
प्रमय || पु० प + मी—वधे—भावे अच् । वधे हेमच० ।
शब्दकल्पद्रुमः
प्रमयः || पुं, (प्र + मी वधे + भावे अच् ।)
वधः । इति हेमचन्द्रः । ३ । ३४ ॥ (यथा, राजतर- ङ्गिण्याम् । १ । ९ । “दृष्टं दृष्टं नृपोदन्तं बद्ध्वा प्रमयमीयुषाम् । अर्व्वाक्कालभवैर्वार्त्ता यत्प्रबन्धेषु पूर्य्यते ॥”)