वाचस्पत्यम्
प्रमा || स्त्री प्र + मा—भावे अङ् । १ यथार्थज्ञाने भ्रमभिन्ने ज्ञाने तल्लक्षणं तदुत्पत्तौ गुणाश्च भाषा० उक्ता यथा ||“दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । प्रत्यक्षे तु विशेष्येण विशेषणवता समम् । सन्निकर्षो गुणस्तु स्यादथ ह्यनुमितौ पुनः । पक्षे साध्यविशिष्टे च परामर्शो गुणो भवेत् । शाब्दबोधे योग्यतायास्तात्- पर्य्यस्याथ वा प्रमा । गुणः स्याद्भ्रमभिन्नस्तु ज्ञानम- त्रोच्यते प्रमा । अथ वा तत्प्रकारं यत् ज्ञानं तद्वद्विशे- ष्यकम्” भाषा० । दोषशब्दे ३७६६ पृ० भ्रमकारणं दृश्यम् तथा च तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वं प्रामाण्या- परपर्य्यायम् तच्च मतभेदेन स्वतोग्राह्यं परतोग्राह्यञ्च तच्च परतोग्राह्यशब्दे ४२३४ पृ० उक्तम् । तस्य विस्तर- स्त्वत्रोच्यते । तत्र न्यायमते “प्रमात्वं न स्वतोग्राह्यं संशयानुपपत्तितः” भाषा० व्याकृतञ्च सि० मु० यथा “मीमांसका हि प्रमात्वं स्वतोग्राह्यमिति वदन्ति । तत्र गुरूणां मते ज्ञानस्य स्वप्रकाशरूपत्वात् तज्ज्ञानप्रा- माण्यं तेनैव गृह्यते इति । भट्टनां मते तु ज्ञानसती- न्द्रियम् । ज्ञानजन्या ज्ञातता प्रत्यक्षा । तया च ज्ञान- मनुमीयते । सुरारिमिश्राणां मतेऽनुव्यवसायेन ज्ञानं नृह्यते । सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञा- नप्रामाण्यं गृह्यते । विषयनिरूप्यं हिं ज्ञानम् । अतो ज्ञानवित्तिवेद्यो विषयः । तन्मतं दूषयति । न स्वतो- जाह्यमिति । संशयेति । यदि ज्ञानपामाण्यं स्वतोग्राह्यं स्यात् तदाभ्यासदशोत्पन्नज्ञाने तत्संशयो न स्योत् । तत्र हि यदि ज्ञानं ज्ञातं तदा प्रामाण्यं ज्ञातमेवेति कथं संशयः । यदि तु ज्ञानं न ज्ञातं तदा धर्मिज्ञानाभावात् कथं संशयः । तस्माजज्ञानप्रामाण्यमनुमेयम् । तथा हि इद ज्ञान प्रमा संवादिप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथाऽप्रमा । इदं पृथिवीत्वप्रकारकं ज्ञानः प्रमा गन्ध- वति पृथिवीत्वप्रकारकज्ञानत्वात् । एवम् इदं जलज्ञानं प्रमा स्नेहवति जलत्वप्रकारकज्ञानत्वात् । न च हतु- ज्ञानं स्वषं जातमिति वाच्छम् । पृथियीत्वप्रकारकत्वस्व स्वतोग्राह्यत्वात् तत्र गन्धवद्विशेष्यकत्वस्यापि सुग्रह- त्वात् । तत्प्रकारकत्वावच्छिन्नतद्वद्विशेष्यकत्वं परं न गृह्यते संशयानुरोधात् । न च प्रमात्वस्य साध्यस्य प्रसिद्धिः कथमिति वाच्यम् इदंज्ञानप्रमात्वस्य स्वतो- ग्राह्यत्वात् । न च प्रकारभेदेन प्रामाण्यभेदात् धटत्व- वति घटत्वप्रकारादेः कथं प्रसिद्धिरिति वाच्यम् घटत्वप्र- कारकत्वस्य स्वविशेष्यकत्वस्य च स्वतोग्राह्यत्वात् । घटस्य च पूर्वमुपस्थितत्वाद् घटविशैष्यकं घटत्वप्रकारकमिति ज्ञाने प्रामाण्यस्य बाधकाभावः । व्यवसायपरन्तु प्रा- माण्यं न गृह्यते । तत्र संशयसामग्रीसत्त्वे संशयस्यै- वोपपत्तेः । किञ्चाभ्यासदशायां तृतोयानुव्यवसायादिना प्रामाण्यस्य स्वत एव ग्रहसम्भवात् प्रथमानुव्यवसायपरं न तद्ग्राहकत्वमिति कल्प्यते संशयामुरोधात् । अथ प्रामाण्यानुमितौ प्रामाण्यग्रहे न तस्य विषयनिश्चय- रूपत्वार्थं तत्र प्रामाण्यग्रहो वाच्यः सोऽप्यनुमित्यन्तरे- णेति फलमुखी कारणमुखी वा नानवस्थेति चेन्न अ- गृहीतप्रामाण्यग्रहकस्यैव निश्चयरूपत्वात् । यत्र च प्रामाण्यसंशयस्तत्रैव परं प्रामाण्यानुमितेरपेक्षया याव- दाशङ्कं प्रामाण्यानुमितिरिष्यत एव सर्वत्र तु न संशयः क्वचित् कोट्यनुपस्थितेः क्वचिद्विशेषदर्शनादितः क्वचिद्वि- षयान्तरसञ्चारादिति सङ्क्षेपः । ननु सर्बेषां ज्ञानानां यथार्थत्वात् प्रमालक्षणे तद्विशेष्यकत्वं विशेषणं व्यर्थम् । न च रङ्गे रजतार्थिनः प्रवृत्तिर्भ्रमजन्था न स्वात् तव मते भ्रमस्याभावादिति वाच्यम् । तत्र हि दोषाधी- नस्य पुरोवर्त्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतु- त्वात् । सत्यरजतस्थल तु विशिष्टज्ञानस्य सत्त्वात् तदेव कारणम् । अस्तु वा तत्रापि भेदाग्रह एव कारणमिति । न चाऽन्यथाख्यातिः सम्भवति रजतप्रत्यक्षकारणस्य रजतसन्निवर्षस्याभावात् रङ्गे रजतबुद्धेरनुपपत्तेरिति चेन्न सत्यरजतस्थले प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतु- तायाः कॢप्तत्वात् अन्यत्रपि तत्ककल्पनात् । न च र्स- वादिप्रवृत्तौ तु भेदाग्रहः कारणमिति वाच्यम् लाघबात् प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात् । इत्थञ्च रङ्गे रजत- त्वविशिष्टबुद्ध्यनुरोधेन ज्ञानलक्षणाप्रत्यासत्तिकल्पनेऽपि न क्षतिः । फलमुखर्गारवस्यादोषत्वात् । किञ्च यद् रङ्गर- जतयोरिमे रजते इति ज्ञानं जातं न कारणबोधोऽपि । अपि च यत्र रङ्गरजतयोरिमे रजतरङ्गे इति ज्ञानं तत्रोभयत्र सुगपत्प्रवृत्तिनिवृत्ती स्वाताम् । रङ्गे रङ्ग भेदग्रहे रजते रजतभेदग्रहेऽन्यथाख्यातिभयात् । त्वन्मते रङ्गे रङ्गभेदाग्रहस्य रजते रजतभेदाग्रहस्य च सत्त्वात् किञ्चानुमितिं प्रति भेदाग्रहस्य हेतुत्वे जलह्रदे वह्नि- व्याप्यधूमवदभेदाग्रहाद् अनुमितिर्निर्बाधा । यदि च विशिष्टज्ञानं कारणं तदाऽयोगोलके वह्निव्याप्यधूमज्ञान- मनुमित्यनुरोधादापतितम । इत्थम् अन्यथाख्यातौ प्रत्य- क्षमेव प्रमाणम् । रङ्गं रजततया जानामीत्यनुभवा- दिति सङ्क्षेपः” । वेदान्तिमते तस्य स्वतोग्राह्यता वेदान्तपरिभाषायां व्यवस्था- पिता यथा “एवसुक्तानां प्रमाणानां प्रामाण्यं स्वतएव उत्पद्यते ज्ञायते च तथा हि स्मृत्यनुभवसाधारणं संवा- दादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यं तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां भू- योऽवयवेन्द्रियसन्निकर्षः, रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् सत्यपि तस्मिन् पीतः शङ्ख इति प्रत्यक्षस्य भ्रमत्वाच्च । अतएव न सल्लिङपरमर्शादिकमपि अनुमि- त्यादिप्रमायां गुणः असल्लिङ्गपरामर्शादिस्थलेऽपि विषया- बाधेनानुमित्यादेः प्रमात्वात् । न चैवमप्रमापि प्रमा स्यात् ज्ञानसामान्यसामग्र्यविशेषादितिवाच्यं दोषाभावस्यापि हेतुत्वाङ्गीकारात् । न चैवं परतस्त्वम् “आगन्तुकभावका- रणापेक्षायामेव परतस्त्वात्” ज्ञायते च प्रामाण्यं स्वतः, स्वतोग्राह्यत्वञ्च दोषाभावे सति यावत्स्वाश्रयग्राहकसा- मग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानं तद्ग्राहक सा- क्षिज्ञानं तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्य- मपि गृह्यते । न चैव प्रामाण्यसंशयानुपपत्तिः तत्र सशयानुरोधेन दोषस्यापि सत्त्वेन दीषाभावघटितस्वा- श्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् । यद्वा यावत्स्वाश्रयग्राहकग्राह्ययोग्यत्वं स्वतस्त्वं संशयस्थले प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः । अप्रामाण्यन्तु न ज्ञानसामान्यसामग्री प्रयोज्यं प्रमायामप्यप्रमाण्यापत्तेः किन्तु दोषप्रयोज्यं नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् अप्रामाण्य- घटकतदभाववत्त्वादेर्वृत्तिज्ञानानुपनातत्वेन साक्षिणा ग्रहीतुमशक्यत्वात् किन्त विसंवादिप्रवृत्त्यादिलिङ्गकानु- मित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति” । अधिकं प्रमाणशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
प्रमा || स्त्री (प्रमीयते इति । प्र + माङ् माने + “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इति अङ् । टाप् ।)
यथार्थज्ञानम् । तत्पर्य्यायः । प्रमितिः २ । इत्यमरः । ३ । २ । १० ॥ प्रमा- णम् ३ । इति शब्दरत्नावली ॥ (यथा, प्रबोध- चन्द्रोदये । २ य अङ्के । “प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि वौद्धैः किमपराध्यते ॥” यथा च ऋग्वेदे । १० । १३० । ३ । “कासीत्प्रमा प्रतिमा किम् ॥” “यज्ञस्य प्रमा प्रमाणमियत्ता का कथम्भूतासीत् ।” इति तद्भाष्ये सायनः ॥)
न्यायमते तद्वति तत्प्रकारकज्ञानम् । भ्रमभिन्नज्ञानम् । अस्याः कारणं गुणः । स च प्रत्यक्षे विशेष्ये विशे- षणस्य सम्बन्धः । अनुमितौ साध्यविशिष्टपक्षे परामर्शः । शाब्दबोधे योग्यतायाः तात्पर्य्यस्य वा यथार्थज्ञानम् । उपमितौ शक्ये सादृश्य- बुद्धिः । यथा, —
“दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ॥ प्रत्यक्षे तु विशेष्येण विशेषणवता समम् । सन्निकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः ॥ पक्षे साध्यविशिष्टे च परामर्शो गुणो भवेत् । शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः । शाब्दवोधे योग्यतायास्तात्पर्य्यस्याथ वा प्रमा ॥ गुणः स्याद्भ्रमभिन्नन्तु ज्ञानमत्रोच्यते प्रमा । अथवा तत्प्रकारं यत् ज्ञानं तद्बद्विशेष्यकम् ॥” इति भाषापरिच्छेदे । १३१-१३५ ॥ (“दोषः इति । अप्रमां प्रति दोषः कारणं प्रमां प्रति गुणः कारणं तत्रापि पित्तादिरूपा दोषा अननुगताः तेषां कारणत्वम् अन्वयव्यतिरेका- भ्यामेव सिद्धम् । गुणस्य प्रमाजनकत्वन्तु अनु- मानात् सिद्धम् । यथा प्रमाज्ञानसाधारण- कारणभिन्नकारणजन्याजन्यज्ञानत्वात् अप्र- मावत् । न च दोषाभाव एव कारणमस्त्विति वाच्यम् । पीतः शङ्ख इति ज्ञानस्थले पित्तदोष- सत्त्वात् शङ्खप्रमानुत्पत्तिप्रसङ्गात् विनिगमना- विरहात् अनन्तदोषाभावस्य कारणत्वमपेक्ष्य गुणकारणताया न्याय्यत्वात् । न च गुणसत्त्वेऽपि पित्तप्रतिबन्धात् शङ्खे न सैत्यज्ञानमतः पित्तादि- दोषाभावानां कारणत्वमवश्यं वाच्यं तथा च किं गुणस्य हेतुत्वकल्पनयेति वाच्यं तथाप्यन्वयव्यति- रेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः । एवं भ्रमं प्रति गुणाभावः कारणमित्यस्यापि सुवचत्वाच्च । तत्र दोषाः के इत्याकाङ्क्षायामाह पित्तेति । क्वचित् पीत्तादिभ्रमे पित्तं दोषः क्वचित् चन्द्रादेः स्वल्प- परिमाणभ्रमे दूरत्वं दोषः । क्वचिच्च वंशोरग- भ्रभे मण्डूकवसाञ्जनमित्येवं दोषा भ्रान्तिजनका इत्यर्थः । अथ के गुणा इत्याकाङ्क्षायां प्रत्य- क्षादौ क्रमशो गुणान् दर्शयति प्रत्यक्षेत्विति । प्रत्यक्षे विशेषणवत् विशेष्यसन्निकर्षो गुणः अनु- मितौ साध्यवति साध्यव्याप्यवैशिष्ट्यज्ञानं गुण इति एवमग्रेऽप्यूह्यः । प्रमां निरूपमति भ्रम- भिन्नमिति । ननु यत्र शुक्तिरजतयोरिमे रजते इति ज्ञानं जातं तत्र रजतांशेऽपि प्रमा न स्यात् तज्ज्ञानस्य भ्रमभिन्नत्वाभावात् अत आह अथवेति । तद्वद्विशेष्यकं तत्प्रकारकं ज्ञानं प्रमा इत्यर्थः । इदन्तु बोध्यम् । येन सम्बन्धेन तद्बत्ता तेन सम्बन्धेन तद्बद्बिशेष्यकं तेन सम्बन्धेन प्रकारकत्वं वाच्यम् । तेन कपालादौ संयोगा- दिना घटादिज्ञाने नातिव्याप्तिः ॥” * ॥
)