संस्कृत-शब्दकोशः

प्रमादिका प्रमापण

प्रमादिन्

वाचस्पत्यम्

प्रमादिन् ||‍ त्रि० प्रमादः नित्ययोगे इनि न तु अस्त्यर्थे एकाक्षरकृदन्तात् तस्य निषेधात् । नित्यप्रमादयुक्ते “एकः प्रमादी स कथं न हन्यते” श्रीधरधृतवाक्यम् ।


शब्दकल्पद्रुमः

प्रमादी || [न्] त्रि, (प्रमादोऽस्त्यस्येति । प्रमाद + इनिः ।)
प्रमादविशिष्टः । अनवधानतायुक्तः । यदुक्तम् । “कुरङ्गमातङ्गपतङ्गभृङ्ग- मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥”



Correction: