संस्कृत-शब्दकोशः

प्रयुद्धार्थ प्रयोग

प्रयोक्तृ

वाचस्पत्यम्

प्रयोक्तृ ||‍ त्रि० प्र + युज—तृच् । १ प्रयोगकर्त्तरि २ ऋणदानादौ धनप्रयोगकर्त्तरि उत्तमर्णे ३ प्रयोजकमात्रे च अमरः ।


शब्दकल्पद्रुमः

प्रयोक्ता || [ऋ] पुं, (प्रयुनक्तीति । प्र + युज् + तृच् ।)
उत्तमर्णः । यथा, —
“उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् ॥” इत्यमरः । २ । ९ । ५ ॥ त्रि, प्रयोगकर्त्ता । (यथा, रघुः । ५ । ५७ । “संमोहनं नाम सखे ! ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्व्वमादत्स्व यतः प्रयोक्तु- र्नचारिहिंसा विजयश्च हस्ते ॥” अनुष्ठाता । यथा, रघुः । ६ । ७६ । “पुत्त्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ॥” नियोगकर्त्ता । यथा, महाभारते । १३ । २३ । ६२ । “परदाराभिहर्त्तारः परदाराभिमर्षिणः । परदारप्रयोक्तारस्ते वै निरयगामिनः ॥” नाट्याचार्य्यः । यथा, रघुः । १९ । ३६ । “स प्रयोगनिपुणः प्रयोक्तृभिः सञ्जघर्ष सह मित्रसन्निधौ ॥”)



Correction: