वाचस्पत्यम्
प्रलाप || पु० प्र + लप—भावे घञ् । १ अनर्थकवाक्ये २ निष्प्रयोजने उन्मत्तादिवाक्ये च अमरः । ३ रोगाणामुपसर्गभेदे “मूर्च्छा मांसक्षयोमोहः प्रलापो मरणमिति क्षुये” सुश्रुते धायो- पसर्गोक्तौ ।
शब्दकल्पद्रुमः
प्रलापः || पुं, (प्रलपनमिति । प्र + लप् + भावे घञ् ।)
प्रलपनम् । अनर्थकवाक्यम् । निष्पयो- जनमुन्मत्तादिवचनम् । इत्यमरभरतौ । १ । ६ १५ ॥ रोगाणामुपसर्गोऽयम् ॥ (यथा, भाव- प्रकाशे । “मूर्च्छा प्रलापो वमथुः प्रसेकः सादनं भ्रमः । उपद्रवा भवन्त्येते मृतिश्च रसशेषतः ॥” अस्य लक्षणं चिकित्सा च यथा, —
“स्वहेतुकुपिताद्वातादसम्बद्धन्निरर्थकम् । वचनं यन्नरो ब्रूते स प्रलापः प्रकीर्त्तितः ॥ सतगरवरतिक्ता रेवताम्भोदतिक्ता नलदतुरगगन्धा भारती हारहूरा । मलयजदशमूलीशङ्खपुष्पी सुपक्वा प्रलपनमपहन्युः पानतो नातिदूरात् ॥ वरतिक्तोऽत्र पर्पटः नलदमुशीरं भारती ब्राह्मी हारहूरा द्राक्षा ।” इति भावप्रकाशस्य मध्य- खण्डे प्रथमे भागे ॥)