वाचस्पत्यम्
प्र(ब)वण || पु० प्र + व (ब)ण—अच् । १ चतुष्यथे अनरः २ निम्न- स्थाने ३ उदरे ४ नम्रे मेटिनिः । ५ आयते ६ प्रगुणे ७ क्षण शब्दर० । ८ प्लुते ९ स्विग्धे त्रि० विश्वः १० क्षीणे च त्रि० धरणिः । ११ आसूक्ते त्रि० हेमच० ।
शब्दकल्पद्रुमः
प्रवणः || त्रि (प्रवतेऽत्रेति । प्रु + अधिकरणे ल्युट् ।)
क्रमनिम्नभूमिः । (यथा, मनुः । ३ । २०६ । “दक्षिणाप्रवणञ्चैव प्रयत्नेनोपपादयेत् ॥”)
उदरम् । प्रह्वः । इति मेदिनी । ने, ५९ ॥ (यथा, मार्कण्डेये । २३ । ८९ । “धन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो मया । यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः ॥”)
आयतः । प्रगुणः । क्षणः । इति विश्वः ॥ प्लुतः । स्निग्धः । इति शब्दरत्नावली ॥ आसक्तः । इति हेमचन्द्रः । ३ । ४९ ॥ (यथा, विष्णुपुराणे । ६ । १ । ११ । “प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्व्वण्यव्यवस्थितौ । सम्यक्श्रद्धासमाचारप्रवणा मुनिसत्तम ! ॥”)
क्षीणः । इति धरणिः ॥
शब्दकल्पद्रुमः
प्रवणः || पुं, (प्रवन्ते गच्छन्ति जना अनेनेति । प्रु गतौ + करणे ल्युट् ।)
चतुष्पथः । इत्यमरः । ३ । ३ । ५६ ॥