वाचस्पत्यम्
प्रविदारण || न० प्रविदारयत्यत्र प्र + वि + दॄ—णिच्—आधारे ल्युट् । १ युद्धे अमरः । भावे ल्युट् । २ अवदारणे मेदि० । कर्मणि ल्युट् । ३ आकीर्णे त्रि० शब्दर० । कर्त्तरि ल्यु ४ प्रविदारणकारके त्रि० ।
शब्दकल्पद्रुमः
प्रविदारणं || क्ली (प्रविदारयन्त्यत्रेति । प्र + वि + दॄ + णिच् + आधारे ल्युट् ।)
युद्धम् । इत्यमरः । २ । ८ । १०३ ॥ (प्र + वि + दॄ + णिच् + भावे ल्युट् ।)
अवदारणम् । इति मेदिर्नी । णे, ११३ ॥ आकीर्णम् । इति शब्दरत्नावली ॥ (प्र + वि + दॄ + णिच् + कर्त्तरि ल्युः । प्रविदारके, त्रि ॥)