संस्कृत-शब्दकोशः

प्रव्रजन प्रव्रजिता

प्रव्रजित

वाचस्पत्यम्

प्रव्रजित ||‍ पु० प्र + घ्रज—क्त । १ सन्न्यासिनि त्रिका० २ मांस्यां ३ मुण्डीर्य्यां ४ तापस्याञ्च स्वी ५ वृद्धभिक्षुकीभेदे मेदि० । परनिपाते प्रव्रजिताशब्दस्य पाठात् कुमारप्रव्रजिता पुंसि तु न प्रव्रजितकुमार इत्येव ।


शब्दकल्पद्रुमः

प्रव्रजितः || पुं, (प्र + व्रज् + क्तः ।)
बुद्धभिक्षु- शिष्यः । तत्पर्य्यायः । चेलुकः २ श्रामणेरः ३ महापाशकः ४ गोमी ५ । इति त्रिकाण्डशेषः ॥ त्रि प्रव्रज्याश्रमविशिष्टः ॥ (यथा, पराशर- संहितायाम् । ४ । २६ । “नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥” प्र + व्रज् + भावे क्तः । क्ली, सन्न्यासः । यथा, महाभारते । ५ । १७६ । ५ । “अलं प्रव्रजितेनेह भद्रे ! शृणु हितं वचः । इतो गच्छस्व भद्रन्ते पितुरेव निवेशनम् ॥”)



Correction: