वाचस्पत्यम्
प्रव्रज्यावसित || पु० प्रव्रज्यातोऽवसितः । सन्न्यासच्युते “प्रव्र- ज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः । निर्वासं कार- येद्विप्रं दासत्वं क्षत्रवैश्ययोः” कात्यायनवचनम् । तत् प्रायश्चित्तमुक्तम् शा० सू० भाष्यधृतस्मृतौ “वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्द्धयेत् भिक्षुर्वानप्रस्थवत् सोमवृद्धिवर्जम्” । कृतप्रायश्चित्तानामपि तेषामव्यवहार्य्याता यथोक्तम् “बहिस्तूभयथापि स्पृतराचाराच्च” शा० सू० । यद्यूर्ध्व- रेतसां स्वाश्रमेभ्यः प्रच्यवनं महाषातकं यदि वोपपातक- मुभयथापि शिष्टैस्ते बहिः कर्त्तव्याः “आरूढपतितं विप्र मण्डलाच्च विनिःसृतम् । उद्बद्ध कृमिदष्टञ्च स्पृष्ट्वा चान्द्रायणं चरेत्” इति चैवमादिनिन्दातिशयस्मृतिभ्यः शिष्टाचाराच्च । न हिं यज्ञाध्ययनविवाहादीनि तैः सहाचरन्ति शिष्टाः” भाष्यम् ।
शब्दकल्पद्रुमः
प्रव्रज्यावसितः || पुं, (प्रव्रज्याया अवसितो विच्युतः ।)
सन्न्यासभ्रष्टः । यथा, —
“तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥” इति दायभागवचनव्याख्यायां क्रमसंग्रहः ॥ (यथा, कात्यायनवचनम् । “प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः । निर्वासं कारयेद्विप्रं दासत्वं क्षत्त्रवैश्ययोः ॥”)