वाचस्पत्यम्
प्रशस्य || स्त्री प्र + शन्स—कर्मणि क्यप् । १ प्रशंसनीये । तस्य इष्ठेयसुनोः परता श्रादेश अतिशयेन प्रशस्यः श्रेष्ठः श्रेयान् भावे क्यप् । २ प्रशंसने न० ।
शब्दकल्पद्रुमः
प्रशस्यः || त्रि प्रशंसनीयः । प्रपूर्ब्बशन्सधातोः कर्म्मणि क्यप्प्रत्ययेन निष्पन्नः ॥ (यथा, काम- न्दकीयनीतिसारे । ११ । ५५ । “अपश्चात् तापकृत्सम्यगनुरक्तिफलप्रदः । अदीर्घकालोऽभीष्टश्च प्रशस्यो मन्त्र इष्यते ॥”)