वाचस्पत्यम्
प्रशास्तृ || पु० प्र + शास—उणा० सू० तृन संज्ञायां अनिट च । शस्त्ररूपशंसनकर्त्तरि ऋत्विग्भेदे असज्ञायान्तु तृचु- इट् । प्रशासितृ । प्रशासनकर्त्तरि राजादौ ।
शब्दकल्पद्रुमः
प्रशास्ता || [ऋ] त्रि, (प्रशास्तीति । प्र + शास् + तृच् । “ग्रसितस्कभितेति ।” ७ । २ । ३४ । इति निपातनादिडभावः । यद्वा, “तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायाञ्चानिटौ ।” उणा० २ । ९४ । इति तृण् इट् च न ।)
ऋत्विक् । मित्रम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ शासनकर्त्ता ॥ (यथा, कामन्दकीयनीतिसारे । १३ । ४५ । “प्रशास्त्रध्यक्षसेनानां मन्त्र्यमात्यपुरोधसाम् । सम्यक्प्रचारविज्ञानं दुष्टानाञ्चावबोधनम् ॥”)