वाचस्पत्यम्
प्रसभ || त्रि० घ्रगता सभा सभाधिकारोऽस्मात् प्रा० व० । बलात्कारे अमरः “प्रसभोद्धृतारिः” रघुः ।
शब्दकल्पद्रुमः
प्रसभः || पुं, (प्रगता सभा सभाधिकारो यस्मात् ।)
बलात्कारः । इत्यमरः । २ । ८ । १०८ ॥ (यथा, श्रीकण्ठचरिते । ५ । ४२ । “यस्मिन् विनिर्म्मितवति प्रसभं प्रकोपा- दत्युग्रनिग्रहनवानुभवोपदेशम् ॥”)