वाचस्पत्यम्
प्रसव || पु० प्र + सू—भावादौ अप् । १ गर्भमोचने २ उत्पत्तौ ३ कार्ये ४ फले ५ कुसुमे ६ अपत्ये च मेदि० नारीणां गर्घमुक्ति कालश्च भावप्र० उक्तो यथा “नवमे दशमे मासि नारी नर्भं प्रसूयते । एकादशे द्वादशे वा ततोऽन्यत्र विकारतः” । वैकृतं यथा “गर्ग उवाच “अकालप्रसवा नार्य्यः कालातीताः प्रजास्तथा । विकृतप्रसवाश्चैव युग्मप्रसवनास्तथा । अमानुषा अवण्डाश्च नजातव्यञ्जनास्तथा । हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः । पशवः पक्षिणश्चैव तथैव च सरी- सृपाः । विनाशं तम्य देशस्य नृपस्य च विनिर्दिशेत् । निर्वासयेत्तां नृपतिः स्वराष्ट्रात् स्त्रियञ्च, पूज्याश्च ततो द्विजेन्द्राः । किमिच्छिकैर्ब्राह्मणतर्पणञ्च लोके ततः शा- न्तिमुपैति पापम्” मात्स्ये २०९ अ० । “भानौ सिंहगते चैव यस्य गौः सप्रसूयते । मरणं तस्य निर्दिष्टं षड्- भिर्मासैर्न संशयः । अत्र शान्तिं प्रवक्ष्यामि येन सम्प- द्यते शुभम् । प्रसुतां तत्क्षणादेव तां गां विप्राय दापयेत् । ततो होमं प्रकुर्वीत घृताक्तैराजसर्षपैः । आहुतीनां घृताक्तानामयुतं जुहुयात्ततः” नारदः । “प्रसबविकारे स्त्रीणां द्वित्रिचतुःप्रभृति सम्प्रसूतौ वा । हीनातिरिक्तकाले च देशकुलसङ्क्षयो भवति । बडवोष्ट्र महिमगोहस्तिनीषु यमलोड्भवे मरणमेमाम् । षण्मा- सात् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ “नार्य्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना । तर्पयेच्च द्विजान कामैः शान्तिं चैवात्र कारयेत् । चतुष्पदाः स्वयूथेभ्य- स्त्यक्तव्याः परमूमिषु । नगरं स्वामिनं यूथमन्यथा हि विनाशयेत्” वृ० सं० ४६ अ० । सुखव्रसवप्रकारः ज्यो० त० उक्तो यथा “अस्ति गोदावरीतीरे जम्भला नाम राक्षसीं । तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्” । “पञ्च रेखाः समुल्लिख्य तिर्य्यगूर्द्ध्वक्रमेण हि । पदानि १६ षड्दशापाद्य त्वेकमाद्ये मुनौ ७ त्रयम् । नबमे सप्त दद्यात्तु वाणं ५ पञ्चदशे तथा । द्वितीयेऽष्टाव- ष्टमे षट् दिशि १० द्वौ षोडशे श्रुति ४ म् । एकादिना समं देयमिच्छार्द्धाङ्कं त्रिकोणके । तदा द्वात्रिं शदादिः स्यात् चतुः कोष्ठेषु सर्वतः । दर्शनाद्धारणात्तासां शुभं स्यादेषु कर्मसु । द्वात्रिंशत् प्रसबे नार्य्याश्चतूस्त्रिंशद्गमे नृणाम् । भूतारिष्टेषु पञ्चाशद् मृतापत्यासु वै शतम् । द्वासप्रतिस्तु सन्ध्यायां चतुः षष्टीरणाध्वनि । विषे विंशो धान्यकीटे- ष्वष्टाविंशतिरेव च । चतुरष्टौ ३२ च बालानां रोदने परि कीर्त्तिता” । स्थानविशेषादिस्थग्रहभेदानां विकृत- प्रसवसूचकताभेदः वृ० जा० उक्तो यथा “उदयस्थेऽपि वा मन्दे कुजे वास्तं ७ समागते । स्थिते वाऽन्तःक्षपानाथे शशाङ्कसुतशुक्रयोः । शशाङ्के पाप- लग्ने वा वृश्चिकेश (कुज) त्रिभागगे । शुभैःस्वाय २ । ११ । स्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा । चतुष्पदे गते भानौ शेषैर्वीर्य्यसमन्वितैः । द्वितनुस्थैश्च यमलौ भवतः कोशवेष्टितौ । छागसिंहवृषैर्लग्ने तत्स्थे सौरेऽथ वा कुजे । राश्यं शसदृशे गात्रे जायते नालवेष्टितः” । स्थानभेदे प्रसवसूचकयोगः वृ० जा० उक्ती यथा “पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे । लग्नः जलजेऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते । आप्योदयमाप्यगः शशीसम्पूर्णः समवेक्षतेऽथ वा । मेषूरण बन्धुलग्नः ग स्यात् सूतिः सलिले न संशयः । उदयोडुप- योर्व्यय १२ स्थिते गुप्त्यां पापनिरीक्षिते यमे । अलिकर्कि- युते विलग्नगे सौरे शीतकरेक्षितेऽवटे । मन्देऽब्जगते विलग्नगे बुधसूर्य्येन्दू निरीक्षिते क्रमात् । क्रीडाभवने सुरालये शेखरभूमिषु च प्रसूयते । नृलग्नगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दूगुरुरग्निहीत्रे । रविर्नरेन्द्रामरगो- कुलेषु शिल्पालये ज्ञः प्रसवं करोति । राश्यंशसमानगो- चरे मार्गे जन्म चरे न्यिरे गृहे । स्वर्क्षांशिगते स्वमन्दिरे बलयोगात् फलमंशकर्क्षयोः । आरार्कजयोस्त्रिकोणगे चन्द्रेऽस्ते च विसृज्यतेऽम्बया । दृष्टेऽमरराजमन्त्रिणा दीर्घायुः सुखभाक् च स स्मृतः । पापेक्षिते तुहिनगा वुदये कुजेऽस्ते ११ त्यक्तो विनश्यति कुजार्कजयोस्तथाये । सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्येतरेषु पर- हस्तगतोऽप्यनायुः । पितृमातृगृहेषु तद्बलात्तरुशाला- दिषु नीचगैः शुभैः । यदि नैकगतौ तु वीक्षितौ ल- ग्नेन्दू विजने प्रसूयते । मन्दर्क्षांशे शशिनि हिवुके भ- न्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयने नीचसंस्थैश्च भूमौ । यद्वद्राशिर्व्रजति हरिजं गर्भमीक्षस्तु तद्वा पापै- श्चन्द्रात् स्मर ७ सुख ४ गतैः क्लेशमाहुर्जनन्याः” । अथ सूतिकागृहमानम् “अष्टहस्तायतञ्चारु चतुर्हस्तविशा- लकम् । प्राचीद्वारमुद्ग्द्वारं विदध्यात् सूतिकागृहम्” । आसन्नपसवायालक्षणमाह “याते हि शिथिले कुक्षी मुक्ते हृदयबन्धने । सशूले जघने नारी विज्ञेया प्रसवो तसुका । आसन्नप्रसवायास्तु कटीपृष्ठन्तु सव्यथम् । भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च” । अथासन्नप्रस- वाया उपचारः “तैलेनाभ्यक्तगात्राणां संस्नातामुष्णा- रिणा । यबागूम्पाययेत् कोष्णां मात्रया घृतसयु ताम् । कृतोपधाने मृदुभिर्विस्तीर्णे शयने शनैः । आभुग्नसक्थि चोत्ताना नारी तिष्ठेद्व्ययान्विता” । (अभुग्नसक्थि असङ्कोचितोरुः) अथ धात्री “चतस्रो- ऽशङ्कनीयाश्च स्रावणे कुशला हिताः । वृद्धः परिचरे युस्ताः सम्यक् छिन्ननखाः स्त्रियः” । अथ तत्कृत्यम् “अपत्यमार्गं तैलेन समभ्यज्य समन्ततः । एका तु तासु सुभगे! प्रवाहस्वेति तां वदेत् । अव्यथा मा प्रवाहिष्ठाः प्रवाहेथा व्यथा यदि । प्रवाहेथाः शनै पूर्वं प्रगाढञ्च ततःपरम् । ततो ग ढनरं गर्भे योनि- द्दारमुपागते । अपरासहितो गर्भो यावत् पतति भू- तले” । व्यथारहितायाः प्रवाहणाद्वैगुण्यमाह “मूकं वा बधिरं कुब्जं श्वासकामक्षयान्वितम् । सूते स्रस्ततनुं वालमकाले च प्रवाहणात्” भावप्र० । नवममाठादिप्रस- वकालश्च नारीणामन्यजन्तूनां मासाभेदाअन्यत्रा दृयाः
शब्दकल्पद्रुमः
प्रसवः || पुं, (प्र + सू + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।)
गर्भमोचनम् । तत्पर्य्यायः । प्रसूतिः २ । इत्यमरः । ३ । २ । १० ॥ (यथा, रघुः । ३ । १२ । “पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ॥” गर्भग्रहणम् । यथा, मनुः । ९ । ७० । “यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात् सकृत्सकृदृतावृतौ ॥”)
उत्पादः । (जन्म । यथा, रघुः । १ । २२ । “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः । गुणागुणानुबन्धित्वात्तस्य सप्रसवा इव ॥” “सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इव ।” इति तट्टीकायां मल्लिनाथः ॥)
अप- त्यम् । (यथा, रघुः । ८ । ३० । “ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृनत्वमुपेयियान् बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥”)
फलम् । कुसुमम् । इति मेदिनी । वे, ४२ ॥ (यथा, रघुः । ४ । २३ । “प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥” आज्ञा । यथा, वाजसनेयसंहितायाम् । १० । २१ । “मरुतां प्रसवेन जय ।” “हे धुर्य्य मरुतां देवानां प्रसवेनाज्ञया त्वं जय शत्रूनिति शेषः ॥” इति तद्भाष्ये महीधरः ॥)
प्रसवस्य मासनियमो यथा, —
“नवमे दशमे मासि नारी गर्भं प्रसूयते । एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ॥” इति भावप्रकाशः ॥ * ॥
प्रसूतिकारकौषधादि यथा, —
“पीतन्तु काञ्जिकं रुद्र ! क्वथितं शरपुङ्खया । हिङ्गुसैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत् ॥ मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् । अपामार्गस्य वै मूलं योनिस्थञ्च प्रसूतिकृत् ॥ अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः । उत्पाट्यमाने सकले पुत्त्रः स्यादन्यथा सुता ॥ अपामार्गस्य वै मूले नारीणां शिरसि स्थिते । गर्भशूलं विनश्येत नात्र कार्य्या विचारणा ॥” इति गारुडे १९६ अध्यायः ॥ * ॥
अपि च । “पाठालाङ्गलिसिंहास्यमयूरकजटैः पृथक् । नाभिवस्तिभगालेपात् सुखं नारी प्रसूयते ॥ पाठायास्तु शिफा योनौ या नारी संप्रधारयेत् । उषः प्रसवकाले तु सा सुखेन प्रसूयते ॥ तुषाम्बुपरिपिष्टेन मूलेन परिलेपयेत् । लाङ्गल्याश्चरणौ सूते क्षिप्रमेतेन गर्भिणी ॥ मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम् । घृतेन सह पातव्यं सुखं नारी प्रसूयते ॥” इति चक्रपाणिदत्तः ॥ * ॥
सुखप्रसवमन्त्रो यथा, —
“अस्ति गोदावरीतीरे जन्भला नाम राक्षसी । तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत् ॥” सुखप्रसवचक्रं यथा, —
“पञ्चरेखाः समुल्लिख्य तिर्य्यगूर्द्ध्वक्रमेण हि । पदानि षड्दशापाद्य त्वेकमाद्ये मुनौ त्रयम् ॥ नवमे सप्त दद्यात्तु बाणं पञ्चदशे तथा । द्वितीयेऽष्टावष्टमे षट्दिशि द्वौ षोडशे श्रुतिः ॥ एकादिना समं ज्ञेयमिच्छाङ्कार्द्धं त्रिकोणके । तदा द्वात्रिंशदादिः स्याच्चतुष्कोष्ठेषु सर्व्वतः ॥ दर्शनाद्धारणात्तासां शुमं स्यादेषु कर्म्मसु । द्वात्रिंशत् प्रसवे नार्य्याश्चतुस्त्रिंशद्गमे नृणाम् ॥ भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् । द्वासप्ततिस्तु बन्ध्यायां चतुःषष्टी रणाध्वनि ॥ विषे विंशो धान्यकीटेष्वधाविंशतिरेव च । चतुरष्टौ च बालानां रोदने परिकीर्त्तिताः ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
तस्य वैकृतं यथा, — गर्ग उवाच । “अकालप्रसवा नार्य्यः कालातीतप्रजास्तथा । विकृतप्रसवाश्चैव युग्मप्रसवनास्तथा ॥ अमानुषा अवण्डाश्च न जातव्यञ्जनास्तथा । हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥ पशवः पक्षिणश्चैव तथैव च सरीसृपाः । विनाशं तस्य देशस्य कुलस्य च विनिर्द्दिशेत् ॥ निर्व्वासयेत्तां नृपतिः स्वराष्ट्रात् स्त्रियञ्च पूज्याश्च ततो द्विजेन्द्राः । किमिच्छकैर्ब्राह्मणतर्पणञ्च लोके ततः शान्तिमुपैति पापम् ॥” इति मात्स्ये अद्भुतशान्तिस्त्रीप्रसवविकृतो नाम २०९ अध्यायः ॥ * ॥
प्रसवाद्भुतत्वं यथा, —
“एको वृषस्त्रयो गावः सप्ताश्वा नवदन्तिनः । सिंहप्रसूतिकाश्चैव कथिताः स्वामिघातकाः ॥” तिस्र इति वक्तव्ये छान्दसत्वात् त्रय इत्युक्तम् । सिंहप्रसूताश्च स्त्रियो बोध्याः । “भानौ सिंहगते चैव यस्य गौः संप्रसूयते । मरणं तस्य निर्द्दिष्टं षड्भिर्मासैर्न संशयः ॥ * ॥
अत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ॥ ततो होमं प्रकुर्व्वीत घृताक्तै राजसर्षपैः । आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥” व्याहृतिभिश्चायं होमः । “सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणाम् ॥” अपि च । “सिंहराशौ गते सूर्य्ये गोप्रसूतिर्यदा भवेत् । पौषे च महिषी सूते दिवैवाश्वतरी तथा ॥ तदानिष्टम्भवेत् किञ्चित् तच्छान्त्यै शान्तिकञ्चरेत् । अस्य वामेतिसूक्तेन तद्विष्णोरितिमन्त्रतः ॥ जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् । मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम् । श्रीसूक्तेन ततः स्नायात् शान्तिसूक्तेन वा पुनः ॥” इत्यद्भुतसागरे नारदः ॥