वाचस्पत्यम्
प्रसह्यचौर || पु० प्रसह्य बलात्कारेण चौरः । (डाकाइत) प्रकाशचौरे त्रिका० ।
शब्दकल्पद्रुमः
प्रसह्यचौरः || पुं, (प्रसह्य बलात्कारेण चौरः ।)
हठात् चौर्य्यकारी । डाकाइत इति लुटेरा इति च भाषा ॥ तत्पर्य्यायः । वन्दीकारः २ माचलः ३ चिल्लाभः ४ । इति त्रिकाण्डशेषः ॥