वाचस्पत्यम्
प्रसादना || स्त्री प्र + सद—णिच्—युच् । १ मेवायां हेमच० । भावे ल्युट् । २ प्रसादन तत्रार्थे न० “मैत्रीकरुणामुदितो- पेक्षाणां सुखिदुः खिपुण्यपापविषयाणां भावनाश्चित्तप्रसा- दनम्” पा० सू० । चितप्रसादनशब्दे २९१४ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
प्रसादना || स्त्री (प्र + सद् + णिच् + युच् + टाप् ।)
सेवा । परिचर्य्या । इति हेमचन्द्रः । ३ । १६० ॥