संस्कृत-शब्दकोशः

प्रसुह्म प्रसूका

प्रसूं

शब्दकल्पद्रुमः

प्रसूः || स्त्री (प्रसूते इति । प्र + सू + “सत्सू- द्विषेति ।” ३ । २ । ६१ । इति क्विप् ।)
माता । इत्यमरः । २ । ६ । २९ ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । १२८ । “पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ॥”)
घोटकी । इत्यमरः । ३ । ३ । २२८ ॥ कदली । वीरुत् । इति मेदिनी । से, ४ ॥ (प्रसवकर्त्ती । यथा, सुश्रुते उत्तरतन्त्रे ३८ अध्याये । “प्रस्रंसिनी स्पन्दते तु क्षोभिता दुःप्रसूश्च या ॥”)


वाचस्पत्यम्

प्रसूं ||‍ स्त्री प्र + सू—क्विप् । १ मातरि अमरः २ घोटक्यां च ३ कदल्यां ४ बीरुधि च मेदि० । स्वार्थे क । प्रसूका वाजिन्यां राजनि० ।



Correction: