वाचस्पत्यम्
प्रस्कण्व || पु० प्रगतः कण्वं कारणत्वेन नि० ऋसौ सुट् । कण्वपुत्रे ऋषिभेदे स च बहूनां वेदमन्त्राणां द्रष्टृत्वात् ऋषिः ।
शब्दकल्पद्रुमः
प्रस्कण्वः || पुं, (प्रगतं कण्वं पापं यस्मादिति । “प्रस्कण्व- हरिश्चन्द्रावृषी ।” ६ । १ । १५३ । इति सुट् ।)
ऋषिविशेषः । स च वैदिकसन्ध्यान्तर्गतसूर्य्योप- स्थानमन्त्रस्य ऋषिः । (यथा, ऋग्वेदे । १ । ४४ । ६ । “प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥”)