वाचस्पत्यम्
प्रस्तरिणी || स्त्री प्रस्तरस्तदाकारोऽख्यस्य इनि ङीप् । गो- लोनिकायां राजनि० ।
शब्दकल्पद्रुमः
प्रस्तरिणी || स्त्री (प्रस्तरस्तदाकारोऽस्त्यस्या इति । प्रस्तर + इनिः । ङीप् ।)
गोलोमिका । इति राजनिर्घण्टः ॥ (विषयोऽस्या गोलोमिकाशब्दे ज्ञेयः ॥)