वाचस्पत्यम्
प्रस्थापित || त्रि० प्र + स्था—णिच्—पुक् कर्मणि क्त । १ प्रेरिते हेमच० । २ प्रकर्षेण स्थापिते त्रि० ।
शब्दकल्पद्रुमः
प्रस्थापितः || त्रि (प्र + स्था + णिच् + क्तः ।) प्रेषितः । इति हेमचन्द्रः ॥ प्रकर्षेण स्थापितश्च ॥