वाचस्पत्यम्
प्रस्फुट || त्रि० प्र + स्फुट—क । १ प्रफुल्ले विकसिते पुष्पादौ शब्दरत्ना० । २ सुस्पष्टे सुव्यक्ते च ।
शब्दकल्पद्रुमः
प्रस्फुटः || त्रि (प्रस्फुटति विकशतीति । प्र + स्फुट् + कः ।)
प्रफुल्लः । इति शब्दरत्नावली ॥ (सुस्पष्टः । यथा, मार्कण्डेये । २७ । २१ । “निष्कृष्य शासनं तस्माद्ददृशे प्रस्फुटाक्षरम् ॥”)