वाचस्पत्यम्
प्रहस्त || पु० प्रततो हस्तो यत्र । १ विस्तृताङ्गुलिपाणौ चपेटे अमरः । रावणसैन्याधिपे २ राक्षसभेदे भा० व० २७४ अ० ।
शब्दकल्पद्रुमः
प्रहस्तः || पुं, (प्रततः प्रसृतो वा हस्तो यत्र ।)
विस्तृताङ्गुलिपाणिः । चपेटः । इत्यमरः । २ । ६ । ८४ ॥ रावणसेनापतिविशेषः । यथा, —
“ततो नीलाम्बुदप्रख्यं प्रहस्तो नाम राक्षसः । अब्रवीत् प्राञ्जलिर्व्वाक्यं शूरः सेनापतिस्तदा ॥” इति रामायणे लङ्काकाण्डे ८ सर्गः ॥