वाचस्पत्यम्
प्रहासिन् || त्रि० प्रकृष्टं हासयति हसति वा हासि—हस- वा णिनि । १ परस्य हासक कारके (भाँड) २ स्वयं हासके ३ विदूषके पु० हेमच० ।
शब्दकल्पद्रुमः
प्रहासी || [न्] पुं, प्रकृष्टं हासयति हसति च पः । (प्र + हस् + णिच् वा + णिनिः ।)
हासकारकः । भाँड इति भाषा । तत्पर्य्यायः । वासन्तिकः २ केलिकिलः ३ वैहासिकः ४ विदूषकः ५ प्रीतिदः ६ । इति हेमचन्द्रः । २ । २४५ ॥ (हास- कारिणि, त्रि । यथा, अथर्व्ववेदे । ८ । ६ । १४ । “आपाकेस्थाः प्रहासिनस्तम्बे ये कुर्व्वते ॥”)