वाचस्पत्यम्
प्राकार || पु० प्रकीर्य्यते प्र + कॄ—आधारे घञ् दीर्घः । इष्टकादि- रचिते वेष्टनाकारे प्राचीरादौ “ऊर्द्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभावहम् । प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयं तथा । गृहिणां शुभद्रं द्वारं प्राकारस्य गृहस्य च । न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम्” ब्रह्मवै० पु० ११३ अ० तन्मानाद्युक्तम् । अस्य क्लीवत्वमार्षम् । भावे घञ् । २ सर्वतो विस्तारे पु० ।
शब्दकल्पद्रुमः
प्राकारः || पुं, (प्रक्रियते इति । प्र + कृ + घञ् । उपसर्गस्य घञीति दीर्घः ।)
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम् । (यथा, महा- भारते । १ । २०८ । २९ । “प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ॥”)
तत्पर्य्यायः । वरणः २ सालः ३ । इत्यमरः । २ । २ । ३ ॥ शालः ४ । इति भरतः ॥ वप्रः ५ । यथा, —
“प्राकाररोधसोर्व्वप्रः पितृकेदारयोरपि ॥” इति रत्नकोषः ॥ तस्य परिमाणं यथा, —
“ऊर्द्ध्वं षोडशहस्तेभ्यो नैव कुर्य्याद्गृहं गृही । ऊर्द्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ॥” तस्य द्बारमानम् । “प्रस्थे हस्तद्बयात् पूर्ब्बं दीर्घे हस्तत्रयन्तथा । गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च ॥ न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अध्यायः ॥