वाचस्पत्यम्
प्राकृतशत्रु || पु० कर्भ० । विषयानन्तरवर्त्तिनि नृपे ।
शब्दकल्पद्रुमः
प्राकृतशत्रुः || पुं, (प्राकृतः स्वाभाविकः शत्रुः ।) स्वदेशाव्यवहितदेशावस्थितराजादिः । यथा । “विषयान्तरः प्राकृतः शत्रुः ।” इति माघ- टीकायां मल्लिनाथः ॥