संस्कृत-शब्दकोशः

प्राक्छाय प्राक्तनकर्म

प्राक्तन

वाचस्पत्यम्

प्राक्तन ||‍ त्रि० प्राचि काले देशे प्राच्यां दिशि वा भवः व्यु तुट् च । प्राग्भवे “प्रपेदिरे प्राक्तनजन्मविद्याः” कुमा० । स्त्रियां ङीप् । २ पूर्ववर्त्तिनि कारण च ।


शब्दकल्पद्रुमः

प्राक्तनः || त्रि (प्राक् प्राचि काले देशे प्राच्यां दिशि वा भवः । प्राक् + कालवाचिनोऽ- व्ययात् ट्युट्युलौ ।)
प्राग्भवः । यथा । “प्रपेदिरे प्राक्तनजन्मविद्याः ॥” इति कुमारसम्भवम् ॥ अन्यच्च । “प्राक्तनेन शुभं सर्व्वं सुखञ्च विभवश्चिरम् । दुःखं शोकः प्राक्तनेन विपत् सम्पच्च साम्प्रतम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १४ अध्यायः ॥ अपि च । तत्रैव १२९ अध्याये । “विधाता लिखितं कर्म्म प्राक्तनं केन वार्य्यते । मा भुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ॥”



Correction: