संस्कृत-शब्दकोशः

प्राग्भार प्राग्राट

प्राग्रहर

वाचस्पत्यम्

प्राग्रहर ||‍ त्रि० प्राग्रे प्रकृष्टाग्रे ह्रियतेऽसौ हृ—अप् । श्रेष्ठे अमरः ।


शब्दकल्पद्रुमः

प्राग्रहरः || त्रि (प्राग्रं प्रकृष्टमग्रं ह्रियतेऽनेनेति । हृ + अप् ।)
श्रेष्ठः । इत्यमरः । ३ । १ । ५८ ॥ (यथा, रघौ । १६ । २३ । “तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम् । पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥”)



Correction: