वाचस्पत्यम्
प्राग्वंश || पु० प्राक् वंशः सपत्रीकयजमनादिसमुदायोऽत्र । हविर्मृहात् पूर्वभागस्थे यजमानादिस्थित्यर्थे गृहे अ- मरः । २ विष्णौ च “प्राग्वंशो वंशवर्द्धनः” विष्णुसं० । “अन्थस्य वंशः पाश्चात्त्यः अस्य तु वंशः प्रपञ्चः प्रागेव न पाश्चात्त्यः” भा० ।
शब्दकल्पद्रुमः
प्राग्वंशः || पुं, (प्राञ्चतीति । प्र + अञ्च + क्विन् । प्राक् । प्राक् वंशः सपत्नीकयजमानादिसमूहोऽत्र ।)
हविषां होतव्यानां आधारो यद्गृहं ततः प्राक् पूर्ब्बदेशे यजमानसदस्यादिस्थित्यर्थं गृहम् । इत्यमरभरतौ ॥ (यथा, हरिवंशे । ४१ । ७ । “यूपं समित्कुशं दर्व्वी चमसोलूखलानि च । प्राग्वंशं यज्ञभूमिञ्च होतारं चयनञ्च यत् ॥” प्राक्चासौ वंशश्चेति कर्म्मधारयः ॥)
पूर्ब्ब- कुलञ्च ॥