वाचस्पत्यम्
प्राघुणिक || पु० प्रघुण + स्वार्थे ठक् । अतिथौ
शब्दकल्पद्रुमः
प्राघुणिकः || पुं, (प्राघुण + स्वार्थे ठक् ।) अतिथिः । यथा, नैषधे । २ । ५६ । “अमितं मधु तत्कथा मम श्रवणप्राघुणिकीकृता जनैः । मदनानलबोधनेऽभवत् खग धाय्या धिगधैर्य्यधारिणः ॥”