संस्कृत-शब्दकोशः

प्राच्छ् प्राच्यवाट

प्राच्य

वाचस्पत्यम्

प्राच्य ||‍ त्रि० प्राचि भवः यत् । १ शरावत्या नद्याः प्राग्दक्षिणे देशे अमरः । प्राच्यां दिशि प्राचि देशे काले वा २ भवे त्रि० । “प्राच्यैर्होलका कर्त्तव्या” दायभा० ।


शब्दकल्पद्रुमः

प्राच्यः || पुं, (प्राचि भवः । प्राच् + “द्युप्रागपागु- दक्प्रतीचो यत् ।” ४ । २ । १०१ । इति यत् ।)
शरावत्याः प्राग्दक्षिणदेशः । इत्यमरः । २ । १ । ७ ॥ (पूर्ब्बदिग्भवे, त्रि । यथा मार्कण्देये । ५७ । ४२ — ४४ । “—प्राच्यान् देशान् निबोध मे । अध्रारका सुदकरा अन्तर्गिर्य्या वहिर्गिराः ॥ यथा प्रवङ्गा वङ्गेया मालदा मालवर्त्तिकाः । ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः ॥ प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । मल्ला मगधगीमन्ताः प्राच्या जनपदाः स्मृताः ॥”)
पूर्ब्बदेशीये च, त्रि ॥ (यथा, महाभारते । ८ । ४५ । २८ । “प्राच्या दासा वृषला दाक्षिणात्याः स्तेना वाहीकाः सङ्करा वै सुराष्ट्राः ॥”)



Correction: