संस्कृत-शब्दकोशः

प्राणायन प्राणावाय

प्राणायाम

वाचस्पत्यम्

प्राणायाम ||‍ पु० प्राण आयम्यतेऽनेन आ + यम—करणे घञ । प्राणवायोर्गतिविच्छेदकारकव्यापारभेदे तद्विसिस्तन्त्रसा- रोक्ता यथा “तत्र प्राणायामेऽङ्गुलिनियमो ज्ञानार्णये “भूतशुद्धिं ततः कुर्य्यात् प्राणायामक्रमेण च । कति- ष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना” । प्राणायामो द्विविधः सगर्भो निगर्भश्च । तथा च “सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेत्” । मात्रा च “वामजानुनि तद्धस्तभ्रामणं यावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपा- रगैः” । तत्र च मूलमन्त्रस्व वीजस्य प्रणवस्य वा षोडश वारादिजपेन वामनासापुटादिना वायुपूरकादिकं कु- र्य्यात् । तथा च कालीहृदये “प्राणायामत्रयं कुर्य्यात् मूलेन प्रणवेन वा । अथ वा मन्त्रवीजेन यथोक्तवि- धिना सुधीः” । यथा तस्य षोडशवारजपेन वायुं रेच- येत् । तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् । तस्य द्वात्रिंशद्वारजपेन वायुं रेचयेत् । पुनर्दक्षिणेनापूर्य्य उभाभ्यां कुम्भयित्वा वामेन रेचयेत् । पुनर्वामेनापूर्य्य उभाभ्यां कुम्भयित्वा दक्षिणेन रेचयेत् । त्रिपुरासार समुच्चये “विपरीतमतो विदधीत बुधः पुनरेव वा तद्विप- रीतमिति” । यौगिके पुनर्मात्रानियमः । तथा च गौत- मीये “मन्त्रप्राणायामः प्रोक्तो यौगिकं कथयामि ते । पूरयेद्वामया विद्वान् भात्राषोडशसंख्यया” इत्यादि । यद्वा चतुःषोडशाष्टवारजपेन पूरकादिकं कुर्य्यात् । तथा च तन्त्रान्तरे “पूरयेत् षोडशभिर्वायुं धारयेत्तु चतु- र्गुणैः । रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकम् । तदशक्तौ तच्चतुर्थमेवं प्राणस्य संयमः । अस्य नित्यता माह “प्राणायामं विना मन्त्रपूजने न हि योग्यता” सन्ध्याङ्गप्राणायामस्वरूपफलादिकं ब्राह्मणसर्वस्वे द- र्शितं यथा तत्राग्निपुराणे “गायत्रीं प्रति ब्रह्मवाक्यम् “कुर्वन्तीऽपीह पापानि ये त्वां ध्यायन्ति पावनि! । उभे सन्ध्ये न तेषां हि विद्यते तु विपातकम् । त्रिः पठेदा— यतप्राणः प्राणायामेन यो द्विजः । वर्त्तते न स लिप्येत पातकैरुपपातकैः” । वृहद्विष्णु “प्राणायामान् द्विजः कुर्य्यात् सर्वपापापनुत्तये । दह्यन्ते सर्वपापानि प्राणाया- मैर्द्विजस्य तु” । विष्णुधर्मोत्तराग्निपुराणयोः “सर्वदोष- हरः प्रोक्तः प्राणायामो द्विजन्मनाम् । ततस्त्वभ्यभिकं नास्ति प्रापप्रशमकारणम्” । अत्रिः “कर्मणा मनसा बाचा अह्ना पापं कृतञ्च यत् । आसीनः पश्चिमां सन्ध्यां प्राणायामैर्व्यपोहति” । अग्निपु० “प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिमिर्निशि । अहोरात्रकृतात् पापान्मुच्यते नात्र संशयः” । बशिष्ठः “प्राणायामान् धारयेत् त्रीन् यथाविधि सुयन्त्रितः । अहोरात्रकृतं पापं तत्क्षणादेव नश्यति” । वृद्धापस्तम्बः “पूर्वमुक्तेषु चैतेषु तथान्येष्वपि सर्वशः । प्राणायामास्त्रयोऽभ्यस्ताः सूर्यस्योदयनं प्रति । जायन्ते तद्विनाशाय तमसामिव भास्क्रः । सूर्यस्योद- यनं प्राप्य निर्मला धूतकलमषाः । भवन्ति भास्कराकारा विधूमा इव पावकाः” । योगियाज्ञवल्क्यः “यदह्ना कुरुते पापं कर्मणा मनसापि वा । त्रिकालसन्द्याचर- णात् प्राणायामैर्थ्यपोहति” । वृहस्पतिः “प्राणायामैर्दहेद् दोषात् मनोवादेहसम्भवान्” । प्राणायामानुवृत्तौ बौधायनः “एतदाद्यं तपः श्रेष्ठमेतद्धर्मस्य लक्षणम् । सर्वदोषोपघातार्थमेतदेव विशिष्यते” । अत्रिवशिष्ठौ “आ- वर्त्तयेत् सदा युक्तः प्राणायामान् पुनःपुनः । आकेशाग्रा- न्नखाग्राच्च तपस्तप्यत उत्तमम्” । विष्णुधर्मोत्तराग्निपुराणयोः “आकेशाग्रान्नखाग्राच्च तपस्तप्ये सुदारुणम् । आ- त्मानं शोधयत्येव प्राणायामः पुनःपुनः । दह्यन्त ध्माय- मानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् । प्राणायामैदहेद्दोषान् प्रा- खायामः परं तपः” । वृहद्यमः “यथा हि शैलधातूना धमतां धम्यते रजः । इन्द्रियाणां तथा दोषान् प्राणा- यामैश्च निर्दहेत्” । वृहस्पतिः “धम्यमानं यथा ह्येतद्धा- तूनां संस्कृतं मलम् । तथेन्द्रियकृतो दोषः प्राणायामेन दह्यते” । योगियाज्ञवलक्यः “यथा पर्वतधातूनां दोषान् दहति पावकः । एवमन्तर्गतञ्चैनः प्राणायामेन दह्यते” । अत्रिवशिष्ठौ “निरोधाज्जायते वायुर्वायोरग्निः प्रजा- यते । अग्नेरापो व्यजायन्त तैरन्तः शुध्यते त्रिभिः” । विष्णुधर्मोत्तराग्निपुराणयोः “निरोधाज्जायते बायुस्तस्मा- दग्निस्ततो जलम् । त्रिभिः शरीरं सकलं प्राणायामै- र्विशुध्यति” । योगियाज्ञवल्क्यः “तथा निरोधसंयोगात् देवतात्रयचिन्तनात् । अग्नेर्वायोरपां योगादात्मा शुध्यति वै त्रिभिः” । मनुः “प्राणायामाव्राह्मणस्य त्रयोऽपि विधिवत् कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः” विष्णुधर्मोत्तरमग्निपुराणञ्च “प्राणसंधारणं मासं कुशाग्रच्युतविन्दुना । यः कुर्य्यादम्भसा राजन्! प्राण- यामसु तत्समः” । वृहद्विष्णुः “सव्यार्हातिं सप्रणवां पायर्तौ शिरसा सह । त्रिः पठेदाबतप्राणः प्राक्षायामः स उच्यते । गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपू- र्विकास । प्रतिप्रणवर्सयुक्तां त्रिरयं प्राणसंयमः” । योगियाज्ञवल्क्यः “भूर्भुवः खर्महर्जनस्तपःसत्यं तथैव च । प्रत्योऽङ्कारसमायुक्तं तत्सवितुर्वरेण्यमा । ओमापोज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत् । एवं मन्त्रप्रयोगस्तु प्राणायामनिवेशने । त्रिरावर्त्तनयोगेन प्राणायामस्तु शव्दितः” । योगियाज्ञवल्क्यः “षोडशा- क्षरकं ब्रह्म गायत्र्यास्तच्छिरः स्मृतम् । ओमापोज्याति- रित्येष मन्त्रा यस्तु प्रकीर्त्त्यते । तस्य प्रजापतिरृषि- र्यजुष्ट्वाच्छन्दसा विना । व्रह्माग्निवायुसूर्य्याश्च देवताः समुदाहृताः । प्राणस्यायमने चैव विनियोग उदाहृतः । गायत्रीशिरसा सार्द्धमेवं श्रुतिनिदर्शनम् । प्रणव व्याहृतियुतां गायत्रीं शिरसा सह । त्रिःपठेदायतप्राणः प्राणायामः स उच्यते । आदानं रोधसंसर्गं वायोस्त्रि स्त्रिः समभ्यसेत् । ब्रह्माणं केशवं शम्भुं ध्यायेदेताननु क्रमात् । रक्तं प्रजापतिं ध्यायेत् विष्णुं नीलोत्पलप्र- भम् । शङ्करं त्र्यम्बकं श्वेतं ध्यायन्मुच्येत बन्धनात् । पूरके व्रह्मसायुज्यं कुम्भके व्रह्मणोऽन्तिकम् । रेचकेना- द्वितीयन्तु प्राप्नुयादैश्वरं पदम्” अथ प्राणायामविधिः तत्र व्यासपद्यम् “आदौ छन्द ऋषिदेवताविनियोगान्नि- रूप्यते “गायत्रीं शिरसा सार्द्धं सप्तव्याहृतिपूर्विकाम् । प्राणायामेन त्रिरावर्त्तयेत् ततः शनैः प्रश्वमेच्च प्राणाया- मैदग्धदोषोऽयं यत् श्रेयः तत् सकलं भवति” । व्यासः “गायत्रुष्टिगनुष्टुप् च वृहती पङक्तिरेव च । त्रिष्टुप् च जगती चेति छन्दांस्याहुरनुक्रमात् । अग्निवाय्यर्कवरुणा वृहस्थतिशतक्रतू । विश्वेदेवाः व्याहृतीनां दैवतानि यथा- क्रमम् । विनियोगः स्मृतस्तासां प्राणायामे महर्षिभिः” । योगियाज्ञवल्क्यः “व्याहृतीनाञ्च सर्वासामार्षञ्चैव प्र- जापतिः । सप्त छन्दांसि प्रोक्तानि छादनानि तु सर्वशः । गायत्र्युष्टिगनुष्टुप् च वृहती तृष्टुबेव च । पङ्क्तिश्च जगती चैव सप्त छन्दांसि तानि वै । अग्निवायुस्तथादित्यो वृहस्पत्याप एव च । इन्द्रश्च विश्वदेवाश्च देवताः समुदा- हृताः । अनाम्नातेषु नित्येषु प्रायश्चित्तेष्र सर्वदा । प्राणायामप्रयोगे च विनियोग उदाहृतः” । वृहस्पतिः “बद्ध्वासनं नियम्यासून् स्मृत्वा ब्रह्मादिकं तथा । सं- निमीलितदृङ् मौनी प्राणायामं समभ्यसेत्” । विष्णु- धर्मोत्तरे “सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते । आदानं रोधमुत्सर्गं मनसा त्रिः समभ्यमेत् । ब्रह्माणं केशवं शम्भुं ध्याबन्मुच्येत बन्धनात् । रक्तं पितामहं ध्याबेद्विष्णुं नीणोत्पलप्रभम् । सुश्वेतं त्र्यम्बकश्चैव तंसारार्णवतरिञ्चम्” । योगियाज्ञवल्क्यः “बाह्यस्थितं नासपुटेन वायुमाकृष्य तेनैव शनैः समस्तम् । नाडीश्च सर्वाः प्रतिपूरेयुः स पूरको नाम महान्नरोधः । न रेचकोनैव च पूरको वा नासाग्रचारी स्थित एव वायुः । अनिश्चलं धारयति क्रमेण कुम्भाख्यमेतं प्रवदन्ति तज्ज्ञाः । निष्क्रम्य नासाविवरादशेषं प्राणं बहिः शून्यमिवानिलेन । निरुच्छ संस्तिष्ठति चोर्द्ध्ववायुः स रेचको नाम महान्निरोधः । नासिकयाऽऽकृष्योच्छासं ध्यान पूरक उच्यते । कुम्भोनिश्चलनिश्वासी रिच्यमा- नस्तु रेचकः” । योगियाज्ञवल्क्यः “प्राणेनाप्यपयानेन वेगवायुं समुत्सृजेत् । येन शत्रूनधस्थाँश्च निश्वासेन च चालयेत् । शनैर्नासापुटे वायुमुत्सृजेन्न तु वेगतः” । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽ- ष्टावङ्गानि” पात० सू० तस्य योगाङ्गतोक्ता । तस्य च यो- गाङ्गप्राणायामस्य लक्षणादिः पात० सू० भा० विवरणेषूक्तं यथा “तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणा- यामः” सू० । “सत्यासनजये बाह्यस्य वायोराचमनं श्वासः । कोष्ठ्यस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिवि- च्छेद उभयाभावः प्राणाधामः” भा० । स तु “बाह्याभ्यन्त- रस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः” सू० । “यत्रा प्रश्वासपूर्वको गत्यभावः स बाह्यः यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः तृतीयस्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद् भवति यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते । तथा द्वयोर्युगपद्गत्यभाव इति त्रयोऽप्येते देशेन परिदृष्टाः इयानस्य विषयो देश इति । कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः । सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भिः द्वितीय उद्- घातः एवं तृतीयः एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः” भा० “बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सू० । “देशकालसङ्क्या- भिर्बाह्यविषयः परिदृष्ट आक्षिप्तः तथाभ्यन्तरविषयः परि- दृष्ट आक्षिप्त उमयथा दीर्घसूक्ष्मः तत्पूर्वको भूमिजयात् क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकाल- सङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मश्चतुर्थस्तु श्वासप्रश्वासयो- र्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्य- भावश्चतुर्थः प्राणायामः इत्ययं विशेष इति” भा० । “ततः क्षीयते प्रकाशावरणम्” सू० । “प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं यत्तदाचक्षते महामोहमयेन इन्द्रजालेन प्रकाशशीलं सत्त्वमावृन्य तदे- वाकार्य्ये नियुड्क्ते इति तदस्य प्रकाशावरणं कर्म सं- सारनिबन्धनं प्राणायामाभ्यासात् दुर्बलं भवति प्रतिक्षणं च क्षीयते । तथा चोक्तम् “तपो न परं प्राणायामात्ततो विशुद्धिमलानां दीप्तिश्च ज्ञानस्येति” । किञ्च धारणासु च योग्यता मनसः प्राणायामाभ्यासादेव । “प्रच्छर्दन- विधारणाभ्यां वा प्राणास्येति” वचनात्” भा० । ||‍“प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति स- त्विति । वृत्तिशब्दः प्रत्येकं संवध्यते । रेचकमाह यत्र प्रश्वामेति । पूरकमाह यत्र श्वामेति । कुम्भकमाह गृतीय इति । तदेव स्फुटयति यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात् प्रयत्नादभावो भवति न पुनः पूर्व- वदापूरणप्रयत्नौघप्रविधारकः प्रयत्नो नापि रेचकप्रय- त्नौघविधारण्य्रयत्नोऽपेक्ष्यते किन्तु यथा तप्ते उपले निहितं जलं परिशुष्यत् सर्वतः सङोचमापद्यते एव मयमपि मारुतो वहनशीलो बलबद्विधारकप्रयत्न निरुद्धक्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते न तु रेचयति येन रेचक इति । इयानस्य देशो विषयः प्रा- देशवितस्तिहस्तादिपरिमितो निवाते प्रदेशे ईषिका तूलादिक्रियानुमितो बाह्य एवमान्तरोऽप्यापादतलमाम- स्तकं पिपीलिकास्पर्शसदृशेनानुमितः । स्पर्शननिमेषक्रिया- वच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्तावधा- रणेनावच्छिन्नः स्वजानुमण्डलं पाणिना त्रिः परा- मृश्य च्छोटिकावच्छिन्नः कालो मात्रा ताभिः षट्त्रिंश न्मात्राभिः परिमितः प्रथम उद्घातो मन्दः । स एव द्वि- गुणीकृतो द्वितीयो मध्यमः स एव त्रिगुणीकृतस्तृतीय स्तीव्रस्तमिमं सङ्ख्यापरिदृष्टं प्राणायाममाह सङ्ख्याभि- रिति । स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावञ्छिन्नेन कालेन यथोक्तच्छोटिकाकालः समानः प्रथमोथात कर्मतां नीतः उद्घातो विजितो वशीकृतो निगृहीतः क्षणानामियत्ताकालो विवक्षितः श्वासप्रश्वासेयत्ता संख्येति कथञ्चिद्भेदः । स खल्वयं प्रत्यहमभ्यस्ती दिवसपक्षमासादि- कमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यं स भधिगमनीयः तया च सूक्ष्मो न तु मन्दतया” विवृतिः । भोगाङप्राणायामविधिः दत्तात्रेयसंहितायामुक्तो यथा “तस्मिन् शस्तं समास्तीर्य्य आसनं विष्टरादिकम् । तत्रो पविश्य मेधावी पद्मासनसमन्वितः । समकायः प्राञ्ज- लिश्च प्रणम्य चेष्टदेवताम् । ततो दक्षिणहस्तस्याप्यङ्गुष्ठेन तु पिङ्गलाम् । निरुध्य पूरयेद्वायुमिडया तु शनैः शनेः । यथाशक्त्यानिरोधेन ततः कुर्य्याच्च कुम्भकम् । ततस्त्वजेत् पिङ्गलया शनैरेव न बेगतः । पुनःपिङ्गलया- ऽऽकृत्य पूरयेदुदरं शनैः । धारयित्वा यथाशक्ति रेचये- न्मारुतं शनैः । यथा त्यजेतयाऽपूर्व्व घारयेदविरोघतः । एवं प्रातः समासीनः कुर्य्याद्विंशातकुम्भकान् । कुम्भकः सहितो नाम सर्वग्रहविवर्जितः । मध्याह्नेऽपि तथा कुर्य्यात् पुनर्विंशतिकुम्भकान् । एवं सायं प्रकुर्वीत पुनर्विंशतिकुम्भकान् । कुर्वीत रेककुम्भाभ्यां सही- तान् प्रतिवासरम् । कुर्य्यादेवं चतुर्वारमनालस्यो दिने दिने । एव मासत्रयं कुर्य्यान्नाडीशुद्धिस्ततो भवेत्” । ग्रहजामले त्रयोदशपटले “प्राणायामस्त्रिधा प्रोक्तो रेच- कुम्भकपूरकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः । रेचपूरणयुक्तो यः स वै सहितकुम्भकः । यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत् । रेचकं पूरकं त्यक्त्वा सुखं यद्वायुधारणम् । प्राणायामोऽय- मित्युक्तः स वै केवलकुम्भकः । गुरूपदिष्टमार्नेण प्राणा- यामं समाचरेत् । यावद्वायुः स्थितो देहे तावज्जीवित- मुच्यते । मरणं तस्य निषक्रान्तिस्ततो वायुं निबन्धयेत् । मलाकुलासु नाडोषु मासता नैव मध्यगः । कथं स्यात् निर्मलीभावः कायशुद्धिः कथं भवेत् । शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकलम् । तदैव जायते योगो प्राणसंग्रहणे क्षमः । प्राणायामं ततः कुर्य्यान्नित्यं सात्त्विकया धिया । तथा सुषुम्णापार्श्वस्था मलाः शोषं प्रयान्ति हि । बद्धपद्मासनोयोगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति पुनः सूर्य्येण रेचयेत् । प्राणं सूर्य्येण चाकृत्य पूरयेदुदरं शनैः । विधिवत कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् । येन त्यजेच्च तेनैव पूरयेदविरोधतः । रेचयेच्च ततोऽन्येन रेचयेच्च न वेगतः” चन्द्रेण वामनासया सूर्य्येण दक्षिणनासया । “प्राणं चेदिडया पिवेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्था- चन्द्रमसोरनेन विधिना विम्बद्वयं ध्यायतः शुद्धा नाडि- गणा भवन्ति मलिना मासत्रयाद्रर्द्धतः । प्रातर्मध्यन्दिनं सायं मध्यरात्रे च कुम्भकान् । चतुरशीतिपर्य्यन्गं चतु- र्बारं समभ्यसेत् । प्राणायामे महान् धर्मो बोगिनो मो- क्षदायिनि । प्राणायामे दिवारात्रौ देहचालं परि- त्यजेत् । अधमे द्वादशी मात्रा मध्यमे द्विगुणा स्मृता । उत्तमे त्रिगुणा ज्ञेया प्राणायामस्य निर्णये । कनीयसि भवेत् स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे प्राणी बद्धपद्मासनो मुहुः । जलेन श्रमजातेन गात्रमार्जन- माचरेत् । दृढता लघुता दीप्तिस्तेन गात्रस्य जायते । यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः । जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः । शरीर- लघुता दीप्तिर्जठराग्निविवर्द्धनम् । कृशत्वञ्च शरीरस्य तस्य जायेत निश्चितम् । पूर्वोक्तकाले कुर्वीत परमाभ्यास- मेव च । ततःपरं यथेष्टन्तु शक्तिः स्याद् वायुधारणे । यथेष्टधारणाद्वायोः सिद्धिः कुम्भस्यकेवला । केवले कुम्भके सिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते” ।


शब्दकल्पद्रुमः

प्राणायामः || पुं, (प्राणस्य वायुविशेषस्य आयामो रोधः । यद्वा, प्राण आयम्यतेऽनेनेति । आ + यम् + करणे घञ् ।)
योगाङ्गविशेषः । (यथा, भागवते । ३ । २८ । ११ । “प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्वि- षान् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥”)
तत्राङ्गुलिनियमो ज्ञानार्णवे । “कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥” स द्बिविधः । सगर्भो निर्गर्भश्च । तथा च । सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेदिति । मात्रा च । “वामजानुनि तद्धस्तभ्रामणं यावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्व्वेदपारगैः ॥” अथ प्राणायामः । मूलमन्त्रस्य बीजस्य प्रणवस्य वा षोडशवारजपेन वामनासापुटे वायुं पूरयेत् । तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् । तस्य द्बात्रिंशद्वारजपेन वायुं रेचयेत् । पुनर्द्दक्षिणे- नापूर्य्य उभाभ्यां कुम्भयित्वा वामेन रेचयेत् । पुनर्वामेनापूर्य्य उभाभ्यां कुम्भयित्वा दक्षिणेन रेचयेत् । तथा च कालीहृदये । “प्राणायामत्रयं कुर्य्यान्मूलेन प्रणवेन वा । अथवा मन्त्रबीजेन यथोक्तविधिना सुधीरिति ॥” सारसमुच्चयेऽपि । “विपरीतमतो विदधीत बुधः पुनरेव तु तद्बिपरीतकमिति ॥” यौगिके पुनर्मात्रानियमः । तथा च गौतमीये । “मन्त्रः प्राणायामः प्रोक्तो यौगिकं कथयामि ते । पूरयेद्वामया विद्वान् मात्राषोडशसंख्ययेति ॥” यद्बा, चतुःषोडशाष्टवारजपेन पूरकादिकं कुर्य्यात् । अथवा एकचतुर्द्विवारेण । तथा च तन्त्रान्तरे । “पूरयेत् षोडशभिर्व्वायुं धारयेत्तच्चतुर्गुणैः । रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकैः ॥” तदशक्तौ तच्चतुर्थमेव प्राणस्य संयमः । अस्य नित्यत्वमाह तत्रैव । “प्राणायामं विना मन्त्रपूजने नहि योग्यता ॥” गोपाले तु विशेषो यथा, — कामबीजस्यैकवारजपेन दक्षिणनासया वायुं रेचयेत् । पुनः सप्तवारजपेन वामनासया वायुं पूरयेत् । नासापुटौ धृत्वा विंशतिवारजपेन वायुं कुम्भयेत् । पुनर्वामेन रेचयेत् । दक्षि- णेन पूरयेत् । उभाभ्यां कुम्भयेत् । पुनर्द्दक्षिणेन रेचयेत् । वामेनापूर्य्य उभाभ्यां कुम्भयेत् । तथा च । “एकेन रेचयेत् कामबीजेनैव पृथक् पृथक् । पूरयेत् सप्तजप्तेन विंशत्या तेन धारयेत् ॥ सर्व्वेषु कृष्णमन्त्रेषु बीजेनानेन रेचयेत् ॥” यद्वा मूलमन्त्रेणैव प्राणायामः । तथा च । “पवनसंयमनन्त्वमुनाचरेत् यमिह जप्तुमसौ मनुमिच्छति ।” यदि दशाक्षरं जपति तदा दशाक्षरेण चेत्तत्र चाष्टाविंशतिवारं रेचयेत् । “पूरयेद्बामया तद्वद्धारयेत्तत्प्रमाणतः । प्राणायामो भवेदेको रेचपूरककुम्भकैः ॥ अष्टादशाक्षरेण चेत् द्वादशैवं समाचरेत् ॥” अन्यमनुभिर्वर्णानुरूपमित्युक्तत्वात् । तत्तन्मन्त्रवर्णसंख्याकै रेचकादित्रयं कुर्य्यात् । क्रमदीपिकायाम् । रेचयेन्मारुतं दक्षया दक्षिणः । पूरयेद्बामया मध्यनाड्या पुनर्धारये- दित्यादि । एतत्तु श्रीकृष्णमन्त्रविषयं नान्यत्र । इति तन्त्रसारः ॥ * ॥
अपि च । “आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः । मन्त्रध्यानयुतो गर्भो विपरीतो ह्यगर्भकः ॥ अगर्भात्तु सगर्भस्थः प्राणायामस्ततोऽधिकः । एवं द्विधा त्रिधाप्युक्तः पूरणात् पूरकः स च ॥ कुम्भको निश्चलत्वात् स रेचनाद्रेचकस्त्रिधा । लघुर्द्वादशमात्रः स्याच्चतुर्व्विंशतिकः परः ॥ षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ॥” इति गारुडे ४९ अध्यायः ॥ * ॥
तस्य फलं यथा, —
“प्रथमे जनयेत् स्वप्नं मध्यमेन च वेपथुम् । विपाकं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥” इति तत्रैव २३० अध्यायः ॥ * ॥
अन्यच्च । “यथा पर्व्वतधातूनां ध्मातानां दह्यते मलम् । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ प्रथमं साधनं कुर्य्यात् प्राणायामस्य योगवित् । प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥ लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः । तस्य प्रमाणं वक्ष्यामि तदलर्क ! शृणुष्व मे ॥ लघुर्द्वादशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिश्च मात्राभिरुत्तरीय उदाहृतः ॥ निमेषोन्मेषणे मात्रा तालो लघ्वक्षरो मतः । प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रकः ॥ प्रथमे जनयेत् स्वेदं मध्यमेन तु वेपथुम् । विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥ मृदुत्वं सेव्यमानास्तु सिंहशाद्र्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥ वश्यं सन्तं यथेच्छातो नागं नयति हस्तिपः । तथैव योगी छन्देन प्राणं नयति साधितम् ॥ यथा हि साधितः सिंहो मृगान् हन्ति न मानुषान् । तद्वन्निषिद्धः पवनः किल्विषं न नृणां तनुम् ॥ तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् ॥ ध्वस्तिः प्राप्तिस्तथा सम्बित्प्रसादश्च महीपते ! । स्वरूपं शृणु चैतेषां कथ्यमानमनुक्रमात् ॥ कर्म्मणामिष्टदुष्टानां जायते फलसंक्षयः । चेतसो विकषायत्वं यत्र सा ध्वस्तिरुच्यते ॥” इष्टदुष्टानां पुण्यपापानाम् । “ऐहिकामुष्मिकान् कामान् लोभमोहात्मकांश्च यान् । निरुध्यास्ते सदा योगी प्राप्तिः सा सार्व्व- कामिकी ॥ अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् । विजानन्तीन्दुसूर्य्यर्क्षग्रहाणां ज्ञानसम्पदा ॥ तुल्यप्रभावस्तु यदा योगी प्राप्नोति सम्बिदम् । तदा सम्बिदिति ख्याता प्राणायामस्य सा स्थितिः ॥ यान्ति प्रसादं येनास्य मनः पञ्च च वायवः । इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः ॥ शृणुष्व च महीपाल ! प्राणायामस्य लक्षणम् । युञ्जतश्च यथायोगं यादृग्विहितमानसम् ॥” इति मार्कण्डेयपुराणे योगिचिकित्सानामा- ध्यायः ॥ * ॥
अन्यच्च । “प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते तु यत् । प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥ परस्परेणाभिभवं प्राणापानौ यदानिलौ । कुरुतः सद्विधानेन तृतीयः संयमात् तयोः ॥ तस्य चालम्बनवतः स्थूलरूपं द्बिजोत्तम ! । आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥” एतेषां टीका । प्राणायाममाह प्राणाख्यमिति । सबीजः सालम्बनो भगवन्मूर्त्तिध्यानमन्त्रजप- सहितः । द्विविधस्यापि तस्य पुनस्त्रैविध्यमाह परस्परेणेति । उच्छ्वासेन मुखनासिकाभ्यां बहिर्निर्गच्छति वायुः स प्राणः । निश्वासेनान्तः प्रविशति यः सोऽपानः । तत्र प्राणवृत्त्यापान- वृत्तेरभिभवो निरोधो रेचकाख्यः प्राणायामः । एवमपानवृत्त्या प्राणवृत्तेरभिभवः पूरकाख्यः । एवमनेन परस्पराभिभवप्रकारद्वयेन स प्राणा- यामो द्विधा । तयोर्युगपत्संयमात् कुम्भकाख्य- स्तृतीयः प्राणायामः । यद्बा । सद्बिधानेनेत्येक- मेव पदम् । तत्र चायमर्थः । सद्विधानेन सद्- गुरूपदिष्टमार्गेण रेचकपूरकाभ्यां यत् पर- स्पराभिभूतं द्बयं यश्च कुम्भकेनोभयोः सहाभि- भवः । एवमभिभवत्रयेणैव प्राणायाम इति । सबीजस्यालम्बनमाह । तस्य चेति । स्थूलं वक्ष्यमाणं हिरण्यगर्भादिरूपम् ।” इति विष्णु- पुराणे ६ अंशे ७ अध्यायः ॥ * ॥
गायत्त्री- प्राणायामो यथा, —
“सव्याहृतिं सप्रणवां गायत्त्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिभिस्त्रिभिः । अहोरात्रकृतात् पापान्मुच्यते नात्र संशयः ॥ सर्व्वपापहरं प्रोक्तं प्राणायामं द्विजन्मनाम् । ततस्त्वभ्यधिकं नास्ति तपः परमपावनम् ॥ प्राणसंधारणं मासं कुशाग्रच्युतबिन्दुना । यः कुर्य्यात् प्रयतो नित्यं प्राणायामस्तु तत्समः ॥ निरोधाज्जायते वायुस्तस्मादग्निस्ततो जलम् । त्रिभिः शरीरं सकलं प्राणायामेन शुद्ध्यति ॥ आकेशादानखाग्राच्च तपस्तप्येत् सुदारुणम् । आत्मानं शोधयेद्यस्तु प्राणायामैः पुनः पुनः ॥ श्रावण्यां पौर्णमास्याञ्च सोपवासो जितेन्द्रियः । प्राणायामशतं कृत्वा मुच्यते सर्व्वकिल्विषैः ॥” इत्यग्निपुराणम् ॥



Correction: