संस्कृत-शब्दकोशः

प्रातर्भोजन प्रातःसवेन

प्रातःसन्ध्या

वाचस्पत्यम्

प्रातःसन्ध्या ||‍ स्त्री सन्धौ भवः यत् सन्ध्या ७ त० । १ गतरात्रेर- नन्तरं मुहूर्त्तात्मके भाविसूर्य्योदयस्य मध्यवर्तिनि २ दण्डच- तुष्टयात्मके वा काले “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतु- ष्टयम् । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त० । सन्ध्या च ब्रह्मणो मनोजाता कन्या सा च वसिष्ठोपदेशेन तपः कृत्वा पूर्वप्रतिज्ञातस्याग्नौ शरीरत्यागस्य सम्पाद- नार्थं विष्णुवरेण पुरोडाशमयं देहमवाप्य मेधातिथि- यज्ञाग्नौ शरीरं जुहाव । तस्याः पूर्वार्द्धं प्रातःसन्ध्या । ३ तस्याञ्च तत्कथा कालिकाप० २२ अ० यथा “तदा विष्णोः प्रसादेन सा विवेश विधेः सुता । बह्नि- स्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्त मण्डले । शुद्धं प्रवेश- यामास विष्णोरेवाज्ञया पुनः । सूर्य्यो द्विधा विभज्याथ तच्छरीरं तदा रथे । स्वके संस्थापयामास प्रीतये पितृ- देवयोः । यदर्द्ध्वभागस्तस्यास्तु शरीरस्य द्विजोत्तमाः! । प्रातःसन्ध्याभवत् सा तु अहोरात्रान्तमध्यगा । यः शेषभागस्तस्यास्तु अहोरात्रान्तमध्यगः । स सायमभवत् सन्ध्या पितृप्रीतिप्रिया सदा । सूर्य्योदयाच्च प्रथमं यदा स्यादरुणादयः । प्रातःसन्ध्या तदोदति देवानां प्रीतिकारिणी । अस्तं गते ततः सूर्य्ये शोणपद्मनिभा सदा । उदेति सायसन्ध्यापि पितॄणां मोदकारिणी” । सन्धौ काले उपास्या सन्ध्या ७ त० । पूर्वसन्ध्याकाले उपास्यायां गायत्रीप्रतिपाद्यपरमेश्वररूपायां ३ देवता- याञ्च यथोक्तं भरद्वाजस्मृतौ ७ अ० यथा “गायन्तं त्रायते यस्मात् गायत्रीति स्मृता ततः । प्राणा गया इति प्रोक्तास्त्रायते तानथापि वा । गायत्रीति भवेन्नाम केवलं त्रायतीति वा । व्यानशे प्राणजिह्वासु सदा वाग्रसवर्तनात् । सरस्वतीति नाम्ना च समा- ख्याता महर्षिभिः । सवितृप्रकाशकरणात् सावित्री- त्यभिधा भवेत् । जगतः प्रसवित्रीति हेतुनानेन वापि च । तस्मादियं सदोपास्या निशादिवसयोर्द्विजैः । गा- यत्री सन्धिवेलायां सैव सन्ध्येति कीर्त्तिता । यो जपे- द्वदनं ज्ञात्वा नश्यन्त्यंहांसि तत्क्षणात् । ऋषिच्छन्दो देवताश्च जपेत्ताश्चान्विताः क्रमात् । ज्ञात्वा पदानि श्रुत्वाथ तुरीयं पादमव्ययम् । ब्रह्मणा याति तत्साम्य पदं ज्ञात्वा तुरीयकम् । या गायत्री त्रिचरणा सा त्रिमूर्त्तिस्वरूपिणी । उपास्यानन्तरं विप्रैस्त्रिसन्ध्यासु त्रिमूर्त्तिषु । तुरीयपादमेतस्या ज्ञात्वा योपास्तिमाचरेत् । सा रत्नपूर्णां पृथिवीं गृह्णन्नो दोषभाग्भवेत् । ब्रह्म- केशवरुद्रादिदेवताभिरुपासिता । सन्ध्यान्तां कोन सेवेत विप्रः स्यादभिलाषुकः । प्रातः सतारकां सन्ध्यां सायं सन्ध्यां सभाष्कराम् । स्नानकर्मणि तन्मध्यामुपासीत यथाविधि । प्रातरेवमुपास्यैव प्रकुर्य्यात् हवनं जपम् । स्नानस्याननतरं कुर्य्यात् तर्पणञ्च महाक्रतून् । सायं सन्ध्यामुपासीत होमं कुर्वीत शासनात् । सन्ध्योपा- सनहीनो यो न योग्यः सर्वकर्मसु । तस्मादुपास्य विधिना सन्ध्यामन्यक्रियाश्चरेत् । नोपासयेद्द्विजः । सन्ध्यां यो- ऽसौ शूद्रत्वमाप्नुयात् । कर्माण्यन्यानि संत्यज्य सन्ध्यां यः केवलं द्विजः । उपास्ते, सर्वपुण्यानि कृतवान् स भवेदसम् । सन्ध्योपास्तिं विनाविप्रः पुण्यान्यन्यानि चाचरेत् । यस्तस्य तानि पापानि भवन्त्येव न संशयः । नाशयेत् जन्मजनितं पापं दशजपादनु । पुराकृतं शतजपाद्गायत्र्यास्तु द्विजन्मनः । कृतं युगेऽपि चैकस्मिन् सहस्रेण जपेन तु । सद्भक्त्या जपतस्तस्माद्गायत्रीं सर्वदा जपेत् । समस्तसप्ततन्तुभ्यो जपयज्ञः परं स्मृतः । हिंसया ते प्रवर्तन्ते जपयज्ञो न हिंसया । यावन्तः कर्मयज्ञाश्च दानानि च तपांसि च । ते सर्वे जपथज्ञस्य कलां नार्हन्ति षोडशीम् । जपेन देवता नित्यं स्तूयमाना प्रसीदति । प्रसन्ना विपुलान् भोगान् दद्यान्मुक्तिञ्च शाश्वतीम् । यक्षराक्षसवेतालप्रेतभूतपिशा- चकाः । जपाश्रयं द्विजं दृष्ट्वा दूरन्ते यान्ति भीतितः । तस्माज्जपः सदा श्रेष्ठः सर्वस्मात् पुण्यसाधनात् । इत्येवं सर्वथा ज्ञात्वा विप्रो जपरो भवेत् । एवं जपपरः सन्ध्यां भक्त्योपासीत यो द्विजः । नियमेन सदा गच्छे- दृषित्वं नात्र संशयः । तस्माज्जितेन्द्रियो नित्यं सन्ध्यो- पास्तिं समाचरेत् । स सर्वलोकान् जित्वाऽथ विप्रः स्ववशमानयेत् । तदन्ते ब्रह्मभावेन यावदाभूतसंप्लवम् । तावन्नित्यो निरातङ्को भवेदत्र न संशयः । एवं सन्ध्या- विधिं सर्वं यो विप्रोऽध्यापयेत् द्विजः । अध्यापको यथावस्थः । श्रोता चैकाग्रमानसः । स सर्वपापनिर्मुक्तः सर्वविद्याविशारदः । अथ धान्यधनोपेतो जीवेद्वर्षशतं सुखी । एतद्विधानंयोऽधीत्य श्रावयेत् ब्राह्मणोत्तमान् । प्रीतिपूर्वं प्रयत्नेन ब्राह्मणो नियमेन च । अज्ञानेन प्रमादेन दुरितं यत् समुत्थितम् । तस्य तत् सकलं नाशं व्रजेदत्र न संशयः । याः सन्ध्योपास्तयस्तिस्रो यस्य स्नानं विधीयते । पर्वणि श्रावणी यस्य तत् सर्वं पूर्ण- तामियात् । कामान्मोहाच्च लोभाच्च सन्ध्यां नाति० क्रमेद् द्विजः । सन्ध्यातिक्रमणाद्विप्रो ब्राह्मण्याच्च्यवते यतः । अनागतां तु ये पूर्वामनतीताञ्च पश्चिमाम् । सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः । स्मृताः? । सायं प्रातः सदा सन्ध्यां ये न विप्रा उपासते । काम- न्तान् धार्मिको राजा शूद्रकर्मसु योजयेत् । विधान- मेतन्नो देयं रहस्यं यस्य कस्यचित् । वेदाध्यायाभिजा० ताय प्रदेयं स द्विजन्मने” । ब्राह्मणस० योगियाज्ञवल्क्यः “अतःपरं प्रवक्ष्यामि सन्ध्योपासनमुत्तमम् । अहोरात्र- कृतैः पापैर्यामुपास्य प्रमुच्यते” । तथा “यावन्तोऽस्यां पृ- थिव्यां हि विकर्मस्थास्त वै द्विजाः । तेषां वै षावनार्थाय सन्ध्या सृष्टा स्वयम्भुवा । या सन्ध्या सा तु गायत्रीं द्विधा भूता प्रतिष्ठिता” । तथा “सा सत्यं कर्म विप्राणाम- होरात्रकृतस्य तु । पापापनुत्तये यस्मात् तस्मान्नित्यं समाचरेत्” यमः “सन्ध्यामुपासते ये तु सततं संशित- व्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्” । शा- तातपः “अनृत्तं मद्यगन्धञ्च दिवामैथुनमेव च । पुनाति वृषलस्यान्नं बहिः सन्ध्या ह्युपासिता” । याज्ञवल्क्यः निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रिकाल- सन्ध्याचरणात् तत्सर्वं विप्रणश्यति” । देवलः “सायं प्रातः सदा सन्ध्यामुपासीत शुचिर्बहिः” । विष्णुपु० “सर्वकाल- मुपस्थान सन्ध्यायांः पार्थिवेष्यते । अन्यत्र सूतकाशौ च विभ्रमातुरभीतितः” । योगियाज्ञवलक्यः “सर्वावस्थो- ऽपि यो विप्रः सन्ध्योपसनतत्परः । ब्राह्मण्यान्न स हीयेत अन्यजन्मगतोऽपि सन् । सन्ध्या तूपसिता येन तेन विष्णुरुपासितः । दोर्घमायुः स बिन्देत सर्वपापैः प्रमु- च्यते । तथा “सायं प्रातस्तु यः सन्ध्यां सऋचां पर्यु- पासिते । जप्त्वैव पाबनीं देवीं सावित्रीं लोकमात- रम् । स तया पावितो देव्या ब्राह्मणो धूतकिल्विषः । न सीदेत् प्रतिगृह्णानोह्यपि पृथ्वीं ससागराम्” । अग्नि- पुराणे मुनय ऊन्वुः कथं मुने! दिवं याति ब्राह्मणो मुक्तकिल्विषः । अनाग्नको हि नो ब्रूहि यदुक्तं वह्निना वुरा” सूत उवाच “सायं प्रातश्च यः सन्ध्यामुपास्तेऽक्षुण्ण मानसः । जपते पावनीं देवीं गायत्रीं वेदमातरम् । तया स भावितो देव्या ब्राह्मणः धूतकिल्विषः । न सी- देत् प्रतिगृह्णानः पृथिवीञ्च ससामराम् । ये चान्ये दा- रुणाः केचिद्ग्रहाः सूर्य्यादयो दिवि । ते चास्य सौ- म्यतां यान्ति शिवाः शिवतरास्तथा । यत्र तत्र मतञ्चैनं दारुणाः पिशिताशनाः । धोररूपा महाकायाः प्रभवन्ति न राक्षसाः । यावन्तश्च पृथिव्यां हि चीर्णवेदव्रता द्विजाः । अचीर्णव्रतवेदा वा विकर्मपथमाश्रिताः । ते- षान्तु पावनार्थाय गायत्री नित्यमेव हि । द्वेसन्ध्ये ह्युपतिष्ठेत तदन्वर्थं महाव्रतम्” । तथा “द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रीं प्रयतः शुविः । यस्तस्य दुष्कृति र्नास्ति पूर्वतः परतोऽपि वा । एवं किल्विषयुक्तो हि विनिर्दहति पातकम् । उभे सन्ध्ये ह्युपासीत तस्मा- न्नित्यं द्विजोत्तमः” । तथा “सन्ध्या येन न विज्ञाता सन्ध्या नेवाप्युपासिता । जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभि जायते” । मनुः “न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम् । स साधुभिर्बहिष्कार्य्यः सर्वस्मातु द्विजक- र्मणः” । व्यासः बहिः सन्ध्या दशगुणा गोष्ठप्रस्रवणा- दिषु । खाते तीर्थे दशगुणा साहस्री जाह्नवीजले” । बहिरिति अनाच्छादितस्थाने प्राङ्गणादौ । शातातपः “गृहेषु प्राकृती सन्ध्या गोष्ठे शतगुणा स्मृता । नदीषु शतसाहस्रा अनन्ता शिवसनिधौ” । गृहेषु गृहवीथ्यादौ । योगियाज्ञवल्क्यः “सन्धौ सन्ध्यामुपासीत नास्तगे नोद्- गते रवौ । सन्ध्यात्रयन्तु कर्त्तव्यं द्विजेनात्मविदा सदा” । संवर्त्तः “प्रातःसन्ध्यां सनक्षत्रामुपासीत यथाविधि । सादित्यां पश्चिमां सन्ध्यामर्द्धास्तमितमा- स्कराम्” । नरसिंहषुराणे “पूर्वां सन्ध्यां सनक्षत्रामु- पक्रम्य यथाविधि । गायत्रीमभ्यमेत्तावद्यावदादित्य- दर्शनम्” । मनुः “ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुरवा- प्नुयुः । पूजां यशश्च कीर्त्तिञ्च ब्रह्मवर्चसमेव च । उ- पास्ते यस्तु नो सन्ध्यां ब्राह्मणो हि विशेषतः । सजीव- न्नेव शूद्रः स्यान्मृतःश्वा चाभिधीयते” । तथा “सन्ध्याहीनो ऽशुचिर्नित्यमनर्हः सर्वकर्ममु । यदन्यत् कुरुते किञ्चित् न तस्य फलवाग्भवेत्” । यमः “अनागतान्तु ये पूर्वामतीतां चापि पश्विमाम् । ये विप्रा नानुतिष्ठन्ति सन्ध्यां ते वृषलाः स्मृताः” । छन्दोगपरिशिष्टे कात्यायनः “सन्ध्यां नोपास्य चाकर्त्ता स्नानदानस्य यः सदा । तं दोषा नोपसर्पन्ति वैनतेयमिवोरगाः” तथा “एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम् । यस्य नास्त्यादरस्तत्र न स ब्राह्मण उ- च्यते” । कूर्मपुराणे “न तिष्ठति तु यः पूर्वां नोपास्ते यस्तु पश्चिमाम् । स शूद्रेण समो लोके सर्वधर्मविवर्जितः” । मुख्यकाले सन्ध्यावन्दनाकरणे प्रायश्चित्तमाह । व्यासः ||‍“आदित्योऽभ्युदियाद्यस्य सन्ध्योपास्तिमकुर्वतः । स्नात्वा प्राणांस्त्रिराचभ्य गायत्र्यष्टशतं सपेत्” पारि- जाते तु “कालातिकमणे चैव चतुर्थ्यार्घ्यं प्रदापयेत्” इत्युक्तम् । मलमामुतत्त्वे तु “कालातीता वृथा सन्ध्या बन्ध्यस्त्रामैथुने यथा । गायत्रीं दशधा जप्त्वा पुनः सन्ध्यां समाचरेत्” काशीखण्डोक्तं प्रायश्चित्तान्तरमुक्तम् । अत्र यथाचारं व्यवस्था । सङ्गवपर्य्यन्तप्रातः सन्ध्याया गौण- कालः आप्रदोषावसानं सायंसन्ध्यायाः इति मण्डनः । “उदयास्तमयादूर्द्ध्वं यावत् स्याद्घटिकात्रयम् । तावत् सन्ध्यामुपासीत प्रायश्चित्तमतःपरम्” इति स्कान्दे वि- शेष उक्तेः । मध्याह्ने तु दक्षः “आध्यर्द्धयामादासायं सन्ध्या माध्याह्निकीष्यते । अर्घ्यप्रदानतः पूर्वमुदया- स्तमयेऽपि वा । गायत्यष्टशतं जप्यं प्रायश्चित्तं द्विजा- तिभिः” इति । गौणकालेऽप्यसम्भवे यमः “दिवोदितानि कर्माणि प्रमादादकृतानि चेत् । शर्वर्य्याः प्रथमे यामे तावत् कुर्य्याद्यथाक्रमम्” । अत्र मुख्यकालानुरोधात् सायंसन्ध्योपासनं पूर्वं कृत्वा “आगन्तूनामन्ते निवेशः” इति न्यायेनातीतकालं कर्म पश्चात् कार्य्यमिति न्यायतः प्राप्वं तस्य निषेधार्थं यथाक्रममिति वचनमिति । “दि वोदिनानि कर्माणि प्राप्नुवन्तीतराणि च । दिवोदितानि कृत्वैव विदध्यादुत्तराणि तु” मदनपरिजाते वसिष्ठोक्तेः । सूतके विशेषः सूतके इत्यनुवृत्तौ “अवगाहं ब्रह्मयज्ञं सौरजप्यञ्च वर्जयेत्” इति “स्नानं सन्ध्यां त्यजन् विप्रः सप्ताहाच्छूद्रतां व्रजेत् । तस्मात् स्नानञ्च सन्ध्याञ्च सूतकेऽपि न सन्त्यजेत् । सूतके मृतके चैव सन्ध्याकर्म समाचरेत् । मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः” इत्यनयोरविरोधाय न मानससन्ध्यानिषेध इति क- ल्प्याम् । किन्तु प्राणायाममन्त्रा मनसापि नोच्चार्य्या इत्यर्थः । पैठिनसिस्तु “सूतके सावित्र्याञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यन्ध्यायन्नमस्कुर्य्यात्” इत्यर्घ्यदानान्तां सन्ध्यामाह । अन्ये तु उच्चार्य्य याचा गायत्रीं दद्याद- र्ष्याञ्जीनपि । अष्टविंशतिकृत्वोऽत्र गायत्रीं मनसा जपेत्” इति गायत्रीजपमप्याहुः । “सूतके कर्मणा- न्त्यागः सन्ध्यादीनां बिधीयते” इति यद्यपि सन्ध्या- यानिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षेपादिकं कार्य्यम् । “सूतके सावित्र्या चाञ्जलिम्प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्य्यं ध्यायन्नमस्कुर्य्यादिति” पैठिनसिस्मरणात् इति मिताक्षरा सन्ध्यादीनामप्यपवादमाहापरार्के पुलस्त्यः “सन्ध्यामिष्टिं चरुं होमं यावज्जीवं समाचरेत् । न त्यजेत् सूतके वापि त्यजन् गच्छेदधो द्विजः । सूतके मृतके चैव सन्ध्याकर्म समाचरेत् । मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः”? । यत्तु चन्द्रिकायां जावालः “सन्ध्यां पञ्च महायज्ञान् नैत्यिकं स्मृतिकर्म च । तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया” यच्च संवर्त्तः “सू- तके कर्मणां त्याग सन्ध्यादीनां विधीयते” यच्च वि- ष्णुपु० “सर्वकालमुपसा तु सन्ध्ययोः पार्थिवेष्यते । अन्यत्र सूतकाशौचविभ्रमातुरभीतितः” इति । तत् संपर्ण्णसन्ध्यानिषेधपरम् । “अर्घ्यान्ता मानसी सन्ध्या कुशवारिविवर्जिता” इति शुद्धिद्वीपे च्यवनोक्तेः । पैठीनसि- ख्यत्व मन्त्रोच्चारणमप्याह” सूतके सावित्र्याञ्जलिं प्रक्षिप्य सूर्य्यंध्यायन्नमस्कुर्य्यात्” । प्रयोगपरिजाते भरद्वाजोपि “सूतके मृतके कुर्य्यात् प्राणायामममन्त्रकम् । तथा मार्जनमन्त्रांस्तु मनसोच्चार्य मार्जयेत् । गायत्रीं सम्यगु- च्चार्य्य सूर्य्यार्घ्यं निवेदयेत् । मार्जनं तु न वा कार्य्य- मुपस्थानं न चैव हि” । इत्येवं मिताक्षरापरिजातादौ अशौचे सन्ध्याकरणविशेषस्योक्तेः गौडानां तदनाचर- णमनाचार एव तस्य श्रीतत्वेन स्मृत्या बाधानुचितत्वा- दपि मिताक्षराद्युक्तं युक्तभिति द्रष्टव्यम् ।


शब्दकल्पद्रुमः

प्रातःसन्ध्या || स्त्री (सन्धौ भवा । यत् प्रत्ययः । टाप् प्रातः प्रथमार्द्धीया सन्ध्या ।)
सन्ध्यादेहपूर्ब्बार्द्धम् । तदुत्पत्तिर्यथा । “तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् सन्ध्यां दृष्ट्वाथ पप्रच्छ वशिष्ठः सादरन्तदा ॥ वशिष्ठ उवाच । किमर्थमागता भद्रे ! निर्जनं त्वं महीधरम् । कस्य वा तनया गौरि ! किं वा तव चिकीर्षितम् ॥ एतदिच्छाम्यहं श्रोतुं यदि गुह्यं न ते भवेत् । वदनं पूर्णचन्द्राभं निश्रीकं वा कथं तव ॥ श्रीमार्कण्डेय उवाच । तत् श्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः । दृष्ट्वा च तन्महात्मानं ज्वलन्तमिव पावकम् ॥ शरीरधृग्ब्रह्मचर्य्यसदृशं तं जटाधरम् । सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् ॥ सन्ध्योवाच । यदर्थमागता शैलं सिद्धं तन्मे तपोधन ! । तव दर्शनमात्रेण तन्मे सेत्स्यति वा विभो ! ॥ तपः कर्त्तुमहं ब्रह्मन् ! निर्जनं शैलमागता । ब्रह्मणोऽहं मनोजाता सन्ध्या नाम्ना च विश्रुता । नोपदेशमहं जाने तपसो मुनिसत्तम ! । यदि ते युज्यते गुह्यं मां त्वं समुपदेशय ॥ एतच्चिकीर्षितं गुह्यं नान्यत् किञ्च न विद्यते अज्ञात्वा तपसो भावं तपोवनमुपस्थिता ॥ चिन्तया परिशुष्येऽर्ह वेपते च मनः सदा ॥ श्रीमार्कण्डेय उवाच । आकर्ण्य तस्या वचनं वशिष्ठो ब्रह्मणः सुतः । स्वयं स सर्व्वकृत्यज्ञो नान्यत् किञ्चन पृष्टवान् ॥ अथ तां नियतात्मानं तपसेऽतिधृतोद्यमाम् । वशिष्ठो मन्त्रयाञ्चक्रे गुरुवत् शिष्यवत्तदा ॥ वशिष्ठ उवाच । परमं यो महत्तेजः परमं यो महत्तपः । परमः परमाराध्यो विष्णुर्मनसि धीयताम् ॥ मन्त्रेणानेन देवेशं विष्णुं भज शुभानने ! । ॐ नमो वासुदेवाय इत्यनेन च सन्ततम् ॥ मार्कण्डेय उवाच । उपदिश्य वशिष्ठोऽथ सन्ध्यायै तपसः क्रियाम् । तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः ॥ यथोक्तन्तु वशिष्ठेन मन्त्रं तपसि साधनम् । व्रतेन तेन गोविन्दं पूजयामास भक्तितः ॥ प्रसन्नस्तेन रूपेण यद्रूपं चिन्तितं तया । पुरः प्रत्यक्षतां यातस्तस्यां विष्णुर्जगत्पतिः ॥ निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरिः । दिव्येङ्गितं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ दिव्यं ज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप्य सा । प्रत्यक्षं वीक्ष्य गोविन्दं तुष्ठाव जगतां पतिम् ॥ अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् । परिक्षीणं जटाव्रातैः पवित्रं मूर्द्ध्नि राजितम् ॥ निरीक्ष्य कृपयाविष्टो हरिः प्रोवाच तामिदम् ॥ श्रीभगवानुवाच । यः पश्यति सकामस्त्वां पाणिग्राहमृते तव । स सद्यः क्लीवतां प्राप्य दुर्ब्बलत्वं गमिष्यति ॥ पतिस्तव महाभागस्तपोरूपसमन्वितः । सप्तकल्पान्तजीवी च भविष्यति सह त्वया ॥ अन्यच्च ते वदिष्यामि पूर्ब्बं यन्मनसि स्थितम् । अग्नौ शरीरत्यागस्ते पूर्ब्बमेव प्रतिश्रुतः ॥ स च मेधातिथेर्यज्ञे मुनेर्द्वादशवार्षिके । घृतप्रज्वलिते वह्नौ न चिरात् क्रियतां त्वया ॥ तत्र गत्वा स्वयं छन्नं मुनिभिर्नोपलक्षिता । मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥ यस्ते वा वाञ्छनीयोऽस्ति स्वामी मनसि कश्चन । तन्निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् ॥ नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्नपाणिना । ततः पुरोडाशमयं तत् शरीरमभूत् क्षणात् ॥ समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता । तदा विष्णोः प्रसादेन सा विवेश विधेः सुता ॥ वह्निस्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्य मण्डले । शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः ॥ सूर्य्यो द्बिधा विभज्याथ तत् शरीरं तदा रथे । स्वके संस्थापयामास प्रीतये पितृदेवयोः ॥ यदूर्द्ध्वभागस्तस्यास्तु शरीरस्य द्बिजोत्तमाः । प्रातः सन्ध्याभवत् सा तु अहोरात्रादिमध्यगा ॥ यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगः । सा सायमभवत् सन्ध्या पितृप्रीतिप्रिया सदा ॥ सूर्य्योदयाञ्च प्रथमं यदा स्यादरुणोदयः । प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी ॥ अस्तं गते ततः सूर्य्ये शोणपद्मनिभा सदा । उदेति सायंसन्ध्यापि पितॄणां मोदकारिणी ॥” इति कालिकापुराणे २२ अध्यायः ॥ प्रातःकालकर्त्तव्यवैदिकतान्त्रिकोपासनाविशेषः । वैदिके तदनुष्ठानानि यथा । मार्जनम् १ प्रार्थ- नम २ प्राणायामः ३ आचमनम् ४ आपो- मार्जनम् ५ अघमर्षणम् ६ सूर्य्योपस्थानम् ७ देवतर्पणम् ८ सावित्र्यावाहनम् ९ सावित्री- ध्यानम् १० सावित्रीजपः ११ सावित्रीविस- र्जनम् १२ आदित्यशुक्रप्रीणनम् १३ आत्मरक्ष- णम् १४ रुद्रोपस्थानम् १५ ब्रह्मादिभ्यो जल- दानम् १६ सूर्य्यार्घदानम् १७ सूर्य्यनतिः १८ ॥ तान्त्रिके तदनुष्ठानानि यथा । मन्त्राचमनम् १ जलशुद्धिः २ करन्यासः ३ अङ्गन्यासः ४ अघ- मर्षणम् ५ हस्तक्षालनम् ६ आचमनम् ७ सूर्य्यार्घदानम् ८ गायत्त्र्या जलदानम् ९ तर्पणम् १० गायत्त्रीध्यानम् ११ गायत्त्रीजपः १२ जल- समर्पणम् १३ इष्टदेवध्यानम् १४ प्राणायामः १५ मूलमन्त्रजपः १६ जलसमर्पणम् १७ प्राणा- यामः १८ नमस्कारः १९ । इति स्मृतितन्त्रे ॥



Correction: