वाचस्पत्यम्
प्रादुर्भाव || पु० प्रादुस् + भू—भावे घञ् । आविर्भावे प्रथमप्रकाशे
शब्दकल्पद्रुमः
प्रादुर्भावः || पुं, (प्रादुस् + भू + भावे घञ् ।) आविर्भावः । यथा, — “वपुः प्रादुर्भावादनुमितमिदं जन्मनि पुरा ॥” इति कुवलयानन्दः ॥