वाचस्पत्यम्
प्रापणिक || पु० प्र + आ + पण—“प्राङि पणिकषः” उणा० किकन् । पण्यविक्रेतरि उज्ज्वलद० ।
शब्दकल्पद्रुमः
प्रापणिकः || पुं, (प्रापणाय्यते इति । प्र + आ + पण व्यवहारे + “प्राङि पणिकषः ।” उणा० २ । ४१ । इति किकन् ।)
पण्यविक्रयी । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (यथा, माघे । ४ । ११ । “आढ्यादिव प्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥”)