वाचस्पत्यम्
प्रामाण्य || न० प्रमाणस्य भावः । तद्वति तत्प्रकारकत्वरूपे ज्ञानधर्मभेदे तच्च न्यायमते परतोग्राह्यं मोमांसकादिमते स्वतः, स्वमामग्र्या वा ग्राह्यमिति भेदः । प्रमात्वशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
प्रामाण्यं || क्ली (प्रमाणस्य भावः । प्रमाण + ष्यञ् ।)
प्रमाकरणत्वम् । प्रमाणशब्दाद्भावार्थे ष्ण्यप्रत्ययः ॥ (यथा, मार्कण्डेये । १५ । ४३ । “सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् । गुरुदेवर्षिसिद्धर्षिपूजनं साधुसङ्गमः ॥”)