वाचस्पत्यम्
प्रायोपविष्ट || त्रि० प्रायाय अनशनमृत्यये उपविदः उप + विश—क्त । अनशनेन मरणायोद्युक्ते भा० आश्व० ८० अ० ।
शब्दकल्पद्रुमः
प्रायोपविष्टः || त्रि (प्रायेण मरणार्थमनशनेन उप- विष्टः ।)
प्रायोपवेशविशिष्टः । यथा, —
“प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ॥” इति श्रीभागवतम् । “प्रायेण मृत्युपर्य्यन्तानशनेनोपविष्टम् ।” इति तट्टीकायां श्रीधरस्वामी ॥