वाचस्पत्यम्
प्रारब्ध || न० प्र + आ + रभ—आरम्भे क्त प्रकृष्टमारब्धं स्वकार्य्यं जननाय कृतारम्भं येन! १ देहाद्यारम्भके २ अदृष्टभेदे तस्य च भोगेनैवक्षय इति शास्त्रे प्रसिद्धम् । “अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” शास्त्रेण प्रारब्धकर्मणो भोगं विना नाशाभावस्योक्तेः “ज्ञानानि सर्वकर्माणि भस्मसात् कुरु- तेऽर्जुन!” गीतायां ज्ञानस्य सर्वकर्मनाशकत्वोक्तिः प्रार- अकर्मातिरिक्तविषयेत्याकरे द्रष्टव्यम् । २ कृतारम्भे त्रि० ।
शब्दकल्पद्रुमः
प्रारब्धं || क्ली (प्रकृष्टमारब्धं स्वकार्य्यजननायेति ।)
प्रालब्धम् । शरीरारम्भकादृष्टविशेषः । यथा, —
“प्रारब्धकर्म्मणां भोगादेव क्षयः ॥” इति स्मृतिः । “प्रारब्धमश्नन्नभिमानशून्यः ।” इति श्रीभागवतम् ॥ “प्रारब्धकर्म्मविक्षेपाद्बासना तु न नश्यति ॥” इति भगवद्गीतायां मधुसूदनसरस्वती च ॥ (प्र + आ + रभ् + कर्म्मणि क्तः । कृतारम्भे, त्रि । यथा, रघौ । १४ । ७ । “अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः । निर्वर्त्तयामासुरमात्यवृद्धा- स्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥”)