वाचस्पत्यम्
प्रालेयांशु || पु० प्रालेयमंशौ यस्य । १ चन्द्रे हला० । तन्नामना- मके २ कर्पूरे च । प्रालेयकरादयोऽप्यत्र भयत्र पु० ।
शब्दकल्पद्रुमः
प्रालेयांशुः || पुं, (प्रालेयाणि हिमानि तद्वत् शीता वा अंशवो यस्य ।)
चन्द्रः । इति हलायुधः ॥ (यथा, माघे । ९ । ८७ । “इत्थं नारीर्घटयितुमलङ्कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्त- रायाः ॥”)