संस्कृत-शब्दकोशः

प्रावृषेय प्रावृष्य

प्रावृष्

वाचस्पत्यम्

प्रावृष्(षा) ||‍ स्त्री प्रवृष्यतेऽत्र प्र + वृष—आधारे क्विप् दीर्घः ह- लन्तत्वात् वा टाप् । वर्षाकाले स च श्रावणभाद्रात्मकः “नभश्च नभस्यश्च वार्षिकावृतू” यजु० । ऋतुशब्दे १४३३ पृ० अस्य सौरचान्द्रत्वविकल्पश्च दृश्यः ।


शब्दकल्पद्रुमः

प्रावृट् || [ष्] स्त्री, (प्रकर्षेण आ सम्यक्प्रकारेण च वर्षतीति । प्र + आ + वृष् + क्विप् । प्रावर्ष- त्यत्रेति आधारे क्विप् वा । यद्बा, वर्षणमिति वृट् प्रकृष्टा वृडत्र । “नहिवृतिवृषिति ।” ६ । ३ । ११६ । इति पूर्ब्बपदस्य दीर्घः ।)
वर्षाकालः । श्रावणभाद्रमासौ । इत्यमरः । १ । ४ । १९ ॥ (यथा, रघौ । ६ । ५१ । “अध्यास्य चाम्भः पृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्द्धनकन्दरासु ॥”)



Correction: