वाचस्पत्यम्
प्रासाद || पु० प्रसीदत्यस्मिन् प्र + सद—आधारे घञ् दीर्घः । देवनृपयोर्गृहे अमरः देवगृहशब्दे ३६७८ पृ० दृश्यम्
शब्दकल्पद्रुमः
प्रासादः || पुं, (प्रसीदन्त्यस्मिन्निति । प्र + सद् + “हलश्च ।” ३ । ३ । १२१ । इत्याधारे घञ् । “उपसर्गस्य घञ्यमनुष्ये बहुलम् ।” ६ । ३ । १२२ । इति उपसर्गस्य दीर्घः ।)
देवभूभुजां गृहम् । इत्यमरः । २ । २ । ९ ॥ (यथा, देवीभाग- वते । २ । ९ । ४२ । “इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्ष- कान् । कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् ॥”)
तल्लक्षणादि यथा, — सूत उवाच । “प्रासादानां लक्षणन्तु वक्ष्ये शौनक ! तच्छृणु । चतुःषष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् ॥ चतुष्कोणं चतुर्भिश्च द्बाराणि सूर्य्यसंख्यया । चत्वारिंशाष्टभिश्चैव भित्तीनां कल्पना भवेत् ॥ ऊर्द्धक्षेत्रसमा जङ्घा जङ्घार्द्धद्बिगुणं भवेत् । गर्भविस्तारविस्तीर्णा शुकाघ्रा च विधीयते ॥ तत्त्रिभागेण कर्त्तव्या पञ्चभागेन वा पुनः । निर्गमस्तु शुकाघ्राया उच्छ्रयः शिखरार्द्धगः ॥ चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनन् । चतुर्थे पुनरस्यैव कण्ठमामलसारकम् ॥ * ॥
अथवापि समं वास्तुं कृत्वा षोडशभागिकम् । तस्य मध्ये चतुर्भागमादौ गर्भन्तु कारयेत् ॥ भागद्वादशकां भित्तिं ततस्तु परिकल्पयेत् । चतुर्भागेण भित्तीनामुच्छ्रयः स्यात् प्रमाणतः ॥ द्बिगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः । शिखरार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः ॥ चतुर्द्दिक्षु तथा ज्ञेयो निर्गमस्तु तथा बुधैः । पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥ भागमेकं गृहीत्वा तु निर्गमं कल्पयेत् पुनः । गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ॥ एतत् सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् । लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् ॥ द्बिगुणेन भवेद्गर्भः समन्ताच्छौनक ! ध्रुवम् । तद्बिधा च भवेद्भित्तिर्जङ्घा तद्विस्तरार्द्धगा ॥ द्बिगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक ! । पीठं गर्भावरं कर्म्म तन्मानेन शुकाघ्रकाम् ॥ निर्गमस्तु समाख्यातः शेषं मूलवदेव तु । लिङ्गमानः स्मृतो ह्येष द्वारमानमथोच्यते ॥ * ॥
कराग्रं वेदवत् कृत्वा द्वारं भागाष्टकं भवेत् । विस्तरेण समाख्यातं द्विगुणं वेच्छया भवेत् ॥ द्वारषत् पीठमध्ये तु शेषं शुषिरकं भवेत् । पादिकं शेषिकं भित्तिर्द्वारार्द्धेन परिग्रहात् ॥ तद्बिस्तारसमा जङ्घा शिखरं द्विगुणं भवेत् । शुकाघ्रा पूर्ब्बवज्ज्ञेया निर्गमोच्छ्रायकं भवेत् ॥ मण्डपे मानमेतत्तु स्वरूपञ्चापरं वदे । * । त्रैवेदं कारयेत् क्षेत्रं यत्र तिष्ठन्ति देवताः ॥ इत्थं कृतेन मानेन बाह्यभागविनिर्गतम् । नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः ॥ गर्भन्तु द्विगुणं कुर्य्यात् नेम्या मानं भवेदिह । स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः ॥ * ॥
प्रासादानाञ्च वक्ष्यामि मानं योनिञ्च नामतः । वैराजः पुष्पकाख्यश्च कैलासो मालकाह्वयः ॥ त्रिपिष्टपश्च पञ्चैते प्रासादाः सर्व्वयोनयः । प्रथमश्चतुरस्रो हि द्वितीयस्तु तदायतः ॥ वृत्तो वृत्तायतश्चान्योऽष्टास्रश्चेह च पञ्चमः । एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः ॥ सर्व्वप्रकृतिभूतेभ्यश्चत्वारिंशच्च एव च । मेरुश्च मन्दरश्चैव विमानश्च तथापरः ॥ भद्रकः सर्व्वतोभद्रो रुचको नन्दनस्तथा । नन्दिवर्द्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी ॥ चतुरस्रात् समुद्भूता वैराजादिति गम्यताम् । * । वडभी गृहराजश्च शालागृहञ्च मन्दिरम् ॥ विमानश्च तथा ब्रह्ममन्दिरं भवनं तथा । उत्तम्भं शिविका वेश्म नवैते पुष्पकोद्भवाः ॥ * ॥
वलयो दुन्दुभिः पद्मो महापद्मस्तथापरः । भद्रकः सर्व्वतोभद्रो रुचको नन्दनस्तथा ॥ गुवावृक्षस्तथान्यच्च वृत्ताः कैलाससम्भवाः । * । गजोऽथ वृषभो हंसो गरुडः सिंहनामकः ॥ भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः । वृत्तायतः समुद्भू तो नवैते मालकाह्वयात् ॥ * ॥
वज्रं चक्रं तथान्यच्च मुष्टिकं वभ्रुसंज्ञितम् । वक्रः स्वस्तिकखड्गौ च गदा श्रीवृक्ष एवच ॥ विजयो नामतः श्वेतस्त्रिपिष्टपसमुद्भवाः । * । त्रिकोणपत्रमर्द्धेन्दु चतुष्कोणं द्बिरष्टकम् ॥ यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु । राज्यञ्च विजयश्चैवमायुर्व्वर्द्धनमेव च ॥ पुत्त्रलाभः श्रियः पिष्टिस्त्रिकोणादिक्रमाद्भवेत् ॥ * ॥
कुर्य्यात् ध्वजादिसंख्यां वा द्वारि गर्भगृहन्तथा । मण्डपः समसंख्याभिर्गुणितः सूत्रतस्तथा । मण्डपस्य चतुर्थांशाद्भद्रः कार्य्यो विजानता ॥ स्पर्द्धागवाक्षकोपेतो निर्गवाक्षोऽथवा भवेत् । सार्द्धभित्तिप्रमाणेन भित्तिमानेन वा पुनः ॥ भित्तेर्द्वैगुण्यतो वापि कर्त्तव्या मण्डपाः क्वचित् । प्रासादे मञ्जरी कार्य्या चित्रा विषमभूमिका ॥ परिमाणनिरोधेन रेखा वैषम्यभूमिका । आधारस्तु चतुर्द्वारश्चतुर्मण्डपशोभितः ॥ शतशृङ्गसमायुक्तो मेरुप्रासाद उत्तमः । मण्डपास्तस्य कर्त्तव्या भद्रैस्त्रिभिरलङ्कृताः ॥ घटनाकारमानानां भिन्ना भिन्ना भवन्ति ये । कियन्तो येषु साधारा निराधाराश्च केचन ॥ प्रतिच्छन्दकभेदेन प्रासादाः सम्भवन्ति ते । अन्योन्यसङ्करास्तेषां घटना नाम भेदतः ॥ देवतानाम् विशेषाय प्रासादा बहवः स्मृताः । यासादे नियमो नास्ति देवतानां स्वयम्भुवाम् ॥ तान्येव देवतानाञ्च पूर्ब्बमानेन कारयेत् । चतुरस्रायतास्तत्र चतुष्कोणसमन्विताः ॥ चन्द्रशालान्विताः कार्य्या भेरीशिखरसंयुताः । पुरतो वाहनानाञ्च कर्त्तव्या लघुमण्डपाः ॥ नाट्यशाला च कर्त्तव्या द्बारदेशसमाश्रया । प्रासादा देवतानाञ्च कार्य्या दिक्षु विदिक्ष्वपि ॥ द्बारपालाश्च कर्त्तव्या मुख्या गत्वा पृथक् पृथक् । किञ्चिद्बिदूरतः कार्य्या मठास्तत्रोपजीविनाम् ॥ प्रावृता जगती कार्य्या फलपुष्पजलान्विता । प्रासादेषु सुरान् स्थाप्य पूजाभिः पूजयेन्नरः ॥ वासुदेवं सर्व्वदेवान् सर्व्वभाक् तद्गृहादिकृत् ॥” इति गारुडे प्रासादकीर्त्तनं नाम ४७ अध्यायः ॥ (यथाच । “एतत् सामान्यमुद्दिष्टं प्रासादस्येह लक्षणम् । अथान्यच्च प्रवक्ष्यामि प्रासादं लिङ्गमानतः ॥ लिङ्गपूजाप्रमाणेन कर्त्तव्या पीठिका बुधैः । पीठिकार्द्धेन भागः स्यात्तन्मानेन तु भित्तयः ॥ बाह्यमिति प्रमाणेन उत्सेधस्तु भवेत्ततः । भित्युच्छ्रायात्तद्बिगुणः शिखरस्य समुच्छ्रयः ॥ शिखरस्य चतुर्भागा कर्त्तव्या स्यात् प्रदक्षिणा । प्रदक्षिणायास्तु समस्त्वग्रतो मण्डपो भवेत् ॥ तस्य चार्द्धेन कर्त्तव्यस्त्वग्रतो मुखमण्डपः । प्रासादान्निर्गतौ कार्य्यौ कपोतौ गर्भमानतः ॥ ऊर्द्ध्वभित्युच्छ्रयात्तस्य मञ्जरीं तु प्रकल्पयेत् । मञ्जर्य्याश्चार्द्धभागेन शुकनासं प्रकल्पयेत् ॥ ऊर्द्धं तथार्द्धभागेन वेदिबन्धो भवेदिह । वेद्याश्चोपरि यच्छेषं कण्ठमामलसारकम् ॥ एवं विभज्य प्रासादं शोभनं कारयेद्बुधः । अथान्यच्च प्रवक्षामि प्रासादस्येह लक्षणम् ॥ गर्भमानेन प्रासादप्रमाणं शृणुत द्विजाः । विभज्य नवधा गर्भं मध्ये लिङ्गस्य पीठिका ॥ पादाष्टकञ्च रुचिरं पार्श्वतः परिकल्पयेत् । मानेनानेन विस्तारो भित्तीनान्तु विधीयते ॥ पादे पञ्चगुणं कृत्वा भित्तीनामुच्छ्रयो भवेत् । स एव शिखरस्यापि द्विगुणः स्यात् समुच्छ्रयः ॥ चतुर्धा शिखरं भज्य अर्द्धभागद्वयस्य वा । शुकनासं प्रकुर्व्वीत तृतीये वेदिका मता ॥ कण्ठमामलसारन्तु चतुर्थे परिकल्पयेत् । कपोलयोस्तु संहारो द्विगुणोऽस्य विधीयते ॥ शोभनैश्च प्रवल्लीभिरण्डकैश्च विभूषितः । प्रासादेषु तृतीयस्तु मया तुभ्यं निवेदितः ॥ सामान्यमपरं तद्वत् प्रासादं शृणुत द्बिजाः । त्रैवेदं कारयेत् क्षेत्रं यत्र तिष्ठन्ति देवताः ॥ इत्थं कृत्वा तु मानेन बाह्यभागविनिर्गतम् । नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः ॥ गर्भन्तु द्विगुणं कुर्य्यान्नेमिमानं भवेदिह । स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः ॥ प्राग्रीवपञ्चभागेन निश्वासस्तस्य चोच्यते । कारयेच्छिखरं तद्वत् प्राकारस्य विधानतः ॥ प्राग्रीवं तस्य मानेन निष्काशेन विशेषतः । कुर्य्याद्द्वयञ्च भागेन प्राग्रीवं कर्णमूलतः ॥ कारयेत् कनकं तत्र गर्भान्ते हारमूलतः । एवन्तु त्रिविधं कुर्य्यात् ज्येष्ठमध्यकनीयम्रम् ॥ लिङ्गमानात्तु भेदेन रूपभेदेन वा पुनः । एते सामान्यतः प्रोक्ता नामतः शृणुताधुना ॥ मेरुमन्दरकैलाशकुम्भसिंहगजास्तथा । विमानश्छन्दकस्तद्वच्चतुरस्रस्तथैवच ॥ अष्ट्यस्रः षोडशास्रश्च वर्त्तनः सर्व्वभद्रकः । बलभी नन्दनश्चैव नन्दिवर्द्धन एवच ॥ सिंहो वृषः सुपर्णश्च पद्मकोऽथ समुद्रकः । प्रासादानां मतः प्रोक्तो विभागं शृणुत द्बिजाः शतशृङ्गश्चतुर्द्वारो भूमिकाषोडशोच्छ्रितः । नानाविचित्रशिखरो मेरुप्रासाद उच्यते ॥ मन्दरो द्बादश प्रोक्तः कैलासो नवभूमिकः । विमानश्छन्दकस्तद्बदनेकशिखराततः ॥ स चाष्टभूमिकस्तद्बत् सप्तभिर्नन्दिवर्द्धनः । विंशाण्डकसमायुक्तो नन्दनः समुदाहृतः ॥ षोडशाण्डकसंयुक्तो नानारूपसमन्वितः । अनेकशिखरस्तद्वत् सर्व्वतोभद्र उच्यते ॥ चन्द्रशालासमापेतो विज्ञेयः पञ्चभूमिकः । वलभी छन्दकस्तद्वच्छुकनासत्रयान्वितः ॥ वृषस्योच्छ्रायतस्तुल्यो मण्डलश्च त्रिवर्ज्जितः । सिंहः सिंहगतिर्ज्ञेयो गजो गजसमस्तथा ॥ कुम्भः कुम्भाकृतिस्तद्बद्भूमिकानवकोच्छ्रयः । अङ्गुलीपुटसंस्थानपञ्चाण्डकविभूषितः ॥ षोडशास्रः समन्तात्तु विज्ञेयः स समुद्रकः । पार्श्वयोश्चन्द्रशालास्य उच्छ्रयो भूमिकाद्वयम् ॥ तथैकपद्मकः प्रोक्तः उच्छ्रयो भूमिकात्रयम् । षोडशास्रः स विज्ञेयो विचित्रशिखरः शुभः ॥ मृगराजस्तु विख्यातः चन्द्रशालाविभूषितः । प्राग्ग्रीवेन विशालेन भूमिका स षडुत्तमाः ॥ अनेकचन्द्रशालस्तु गजप्रासाद उच्यते । पर्य्यन्तगृहराजो वै गरुडो नामनामतः ॥ सप्तभूम्युच्छ्रयस्तद्वच्चन्द्रशालात्रयान्वितः । भूमिकास्तु षडशीतिर्व्वाह्यतः सर्व्वतो भवेत् ॥ तथान्यो गरुडस्तद्बदुच्छ्रायो दशभूमिकः । पद्मकः षोडशास्रस्तु भूमिद्वयमथाधिकः ॥ पद्मतुल्यप्रमाणेन श्रीतुष्टक इति स्मृतः । पञ्चाण्डकस्त्रिभूमिस्तु गर्भे हस्तचतुष्टयः ॥ वृषो भवति नाम्ना यः प्रासादः सार्व्वकामिकः । सप्तकाः पञ्चकाश्चैव प्रासादा ये मयोदिताः ॥ सिंहस्य ते समा ज्ञेया ये चान्येऽन्यत्प्रमाणतः । चन्द्रशालैः समोपेताः सर्व्वे प्राग्रीवसंयुताः ॥ ऐष्टिका दारवाश्चैव शैलजाश्च सतोरणाः । मेरुश्च शतहस्तः स्यान्मन्दरः पञ्चहीनकः ॥ चत्वारिंशत्तु कैलासश्चतुस्त्रिंशद्बिमानकः । नन्दिवर्द्धनकस्तद्वद्वात्रिंशत् समुदाहृतः ॥ त्रिंशद्भिर्नन्दनः प्रोक्तः सर्व्वतोभद्रकस्तथा । एते षोडशहस्ताः स्युश्चत्वारो देववल्लभाः ॥ कैलासो मृगराजस्तु विमानश्छन्दको गजः । एते द्वादशहस्ताः स्युरेतेषां सिंहनादकः ॥ गरुडोऽष्टकरो ज्ञेयः सिंहो दश उदाहृतः । एवमेव प्रमाणेन कर्त्तव्याः शुभलक्षणाः ॥ यक्षराक्षसनागानां मातृहस्तः प्रशस्यते । तथा मेर्व्वादयः सप्त ज्येष्ठलिङ्गाः शुभावहाः ॥ श्रीवृक्षकादयश्चाष्टौ मध्यमाश्च उदाहृताः । तथा सिंहादयः पञ्च कनिष्ठाः शुभदा मताः ॥” इति विश्वकर्म्मप्रकाशे ५ अध्यायः ॥)