वाचस्पत्यम्
प्रास्थिक || त्रि० प्रस्थस्य वापः ठञ् । १ प्रस्थमितधान्यवपनाधार क्षेत्रे २ भूमौ स्त्री ङीप् । प्रस्थं सम्भवति (स्वस्मिन् समा- वेशयति) अवहरति पचति वा ठञ् । प्रस्थमितधान्यादे- स्वस्मिन् ३ समावेशके ४ अवहारके ५ पाचके च त्रि० स्त्रियां ङीप् । प्रस्यः परिमाणमस्य ठञ् । ६ प्रस्थपरिमाणयुक्त धान्यराश्यादौ त्रि० प्रस्थेन क्रीतम् ठञ् । ७ प्रस्थेन क्रीते त्रि० स्त्रियां ङीप् । प्रस्थस्य निमित्तं संयोग उत्पातो वा ठञ् । प्रस्थस्य ८ निमित्ते ९ संयोगे १० उत्पाते वा ।
शब्दकल्पद्रुमः
प्रास्थिकः || त्रि (प्रस्थ + “सम्भवत्यवहरति पचति ।” ५ । १ । ५२ । इति ठञ् । प्रस्थपरिमितधान्यादेः समावेशकः अवहारकः पाचकश्च ।)
प्रस्थं सम्म- वति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन् समा- वेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमव- हरति पचति वेत्यर्थः । इति सिद्धान्तकौमुदी ॥ (प्रस्थं परिमाणमस्येति । “तदस्य परिमाणम् ।” ५ । १ । ५७ । इति ठञ् । प्रस्थपरिमितः । यथा, सुश्रुते चिकित्सितस्थाने । १२ अध्याये । “यवकोलकुलस्थांश्च प्रास्थिकान् सलिलद्रोणे निःक्वाथ्येति ॥” प्रस्थेन क्रीतमिति । “तेन क्रीतम् ।” ५ । १ । ३७ । इति ठञ् । प्रस्थक्रीतः ॥ प्रस्थस्य वापः । “तस्य वापः ।” ५ । १ । ४५ । इति ठञ् । प्रस्थपरिमितव्रीह्यादिवपनयोग्ये क्षेत्रे । यथा, शब्दरत्नावल्याम् । “द्रोणाढकखार्य्यादेर्वापादौ द्रौणिकस्तथा । स्यादाढकिकखारीकौ उत्तमर्णादयस्त्रिषु । आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रौणिको ऽपि च ॥”)