संस्कृत-शब्दकोशः

प्राह प्राह्णे

प्राह्ण

वाचस्पत्यम्

प्राह्ण ||‍ पु० प्रारम्भोऽह्नः प्रा० स० अच् समा० अह्नादेशः णत्वञ्च । त्रिधाविभक्तदिनस्य पूर्वभागे १ पूर्वाह्णे अमरः । प्रकृष्टम- हर्यत्र तिष्ठद्गु० अव्ययी० । २ प्रकृष्टदिनयुते अव्य० ।


शब्दकल्पद्रुमः

प्राह्णः || पुं, (प्रथमञ्च तदहश्चेति । “राजाहःसखि- भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् । “अह्रोह्र एतेभ्यः ।” ५ । ४ । ८८ । इति अह्रादेशः । “अह्रोऽदन्तात् ।” ८ । ४ । ७ । इति णत्वम् ।)
पूर्ब्बाह्णः । इत्यमरः । १ । ४ । ३ ॥ (यथा, सुश्रुते । ६ । १८ । “अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ॥” तदभिमानिनी देवता च । यथा, भागवते । ७ । १५ । ५४ । “अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् ॥” * ॥
प्रकृष्टमहर्यत्रेति विग्रहे । “तिष्ठद्गुप्रभृतीनि च ।” २ । १ । १७ । इत्यवयीभावः । प्रकृष्टदिन- युते, व्य ॥)



Correction: