वाचस्पत्यम्
प्रियङ्गु || स्त्री प्रिय + गम—डु नि० मुम् च । १ स्पमामख्याते वृक्षे अमरः प्रियङ्गः शीतला तिक्ता तुवरानिलपित्तहृत् । रक्तादियोमदौर्गन्ध्यस्वेददाहज्वरापहा । गुल्मतृड्- विषमोहध्नी तद्वद्गन्धाप्रयङ्गका । तत्फलं मधुरं रूप्यं {??} संग्राहि कफपित्तजित्” भावप्र० । “प्रियङ्गकलिकारम्” इति बुध- प्रणाममन्त्रः । २ राजिकायां राजनि० ३ पिप्पल्याम् ४ कङ्गौ (काङ्गनी) धान्ये मेदि० ५ कटुक्यां धरणिः ।
शब्दकल्पद्रुमः
प्रियङ्गुः || स्त्री (प्रियं गच्छतीति । प्रिय + गम् + मृगय्वादित्वात् कुप्रत्ययेन साधुः ।)
स्वनाम- ख्यातसुगन्धिवृक्षविशेषः । (यथा, महागणपति- स्तोत्रे । १० । “वामे चक्रगदाधरः स भगवान् क्रोडो प्रियङ्गो- स्तले हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥”)
तत्पर्य्यायः । श्यामा २ महिलाह्वया ३ लता ४ गोवन्दनी ५ गुन्द्रा ६ फलिनी ७ फली ८ विष्व- क्सेना ९ गन्धफली १० कारम्भा ११ प्रियकः १२ । इत्यमरः । २ । ४ । ५५ ॥ प्रियवल्ली १३ फलप्रिया १४ गौरी १५ वृत्ता १६ कङ्गुः १७ कङ्गुनी १८ भङ्गुरा १९ गौरवल्ली २० शुभगा २१ पर्णभेदिनी २२ शुभा २३ पीता २४ मङ्गल्या २५ श्रेयसी २६ । अस्या गुणाः । शीतलत्वम् । तिक्तत्वम् । दाहपित्तास्रदोषभ्रमवान्तिज्वरवक्त्रजाड्यनाशि- त्वम् । इति राजनिर्घण्टः ॥ तुवरत्वम् । अनि- लनाशित्वम् । रक्तातियोगदौर्गन्ध्यस्वेदगुल्मतृड्- विषमोहनाशित्वञ्च । इति भावप्रकाशः ॥ * ॥
राजिका । पिप्पली । कङ्गुः । इति मेदिनी ॥ कटुकी । इति धरणिः ॥