वाचस्पत्यम्
प्रियतोषण || त्रि० प्रियं तोषयति तुष—णिच ल्यु । १ प्रियस- न्तोषकारके “नारीपादौ स्वहस्तेन धारयेत् जघनोपरि । स्तनापीडकरः कामी कामयेत् प्रियतोषणः” रतिमञ्ज- र्य्युक्ते २ रतिबन्धभेदे ।
शब्दकल्पद्रुमः
प्रियतोषणः || पुं, (प्रियस्य तोषणं यस्मात् । यद्वा, प्रियं तोषयतीति । तुष् + णिच् + ल्युः ।)
षोडशबन्धातिरिक्तरतिबन्धविशेषः । तस्य लक्षणं यथा, —
“नारी पादौ स्वहस्तेन धारयेज्जघनोपरि । स्तनापीडकरः कामी कामयेत् प्रियतोषणः ॥” इति रतिमञ्जरी ॥ प्रियस्य तुष्टिकारिणि, त्रि ॥