वाचस्पत्यम्
प्रियसन्देश || पु० प्रियं सन्दिशति सम् + दिश्र—अण् उप० स० । १ चम्पकवृक्षे भावे घञ् ६ त० । २ प्रियसंवादे शब्दच० ।
शब्दकल्पद्रुमः
प्रियसन्देशः || पुं, (प्रियं सन्दिशतीति । प्रिय + सम् + दिश + अण् ।)
चम्पकवृक्षः । इति शब्द- चन्द्रिका ॥ (प्रियः सन्देश इति कर्म्मधारयः ।)
प्रियसंवादश्च ॥